________________ [ 19 ] 'अंशुगो ज्योतिरर्चिः' इति हैमः। पोषणं-पुष्टिमाचरन-कुर्वनयं खलः-दुर्जनः कणमर्दनस्थानं तिलकल्कश्च कथकारं / कथं न वर्ण्यताम्-स्तूयताम, अपि तु स्तूयतामेव / अयं भावः-खलः न निष्कपट प्रेम करोति, सर्वदा मलिनस्वरूपेण तिष्ठति / तथा तस्य मरणे जनाः तद्विषये अनेकप्रकारां निन्दात्मिकां चर्चा कुर्वन्ति / एवञ्च स्वयं मलिनो भवति न तु स्नेहं मलिनयति, इति शब्दच्छलादायाति, तथा स्वक्षयेऽपि अन्यस्य पोषण. मादधाति इत्यपि सिद्धम् / इति स सज्जनधर्मत्वात् स्तुत्यः / अत्र च शब्दशक्तिमूलो मालोपमाध्वनिः / तथाहि कणमर्दनस्थानं गोमयमिश्रितजललेपनोद्भुतां स्निग्धतां परित्यज्य गोमयसंसर्गेण मलिनं जायते / कणमदनाव पूर्व हि जनास्तत्स्थानं गोमयमिश्रितजलेन लिम्पन्तीति लोकसिद्धम् / तथा तैलिकाः तिलान् यन्त्रे निधाय ततस्तैलनिस्सारणार्थ तत्र जलक्षेपं कुर्वन्ति, तेन तैलं तिलान्निर्गत्य यन्त्रच्छिद्रेण बहिः पात्रे पतति, तिलकल्कश्च श्यामल एव भवति, तद्भक्षणेन गावश्च बलिवर्दाश्च पुष्टा भवन्ति, तथा कणमर्दनानन्तरम् तत्र प्रयोजिता वृषभास्सस्यं भक्षयित्वा पुष्टा भवन्ति, इति उभयत्रैव गवां पोषणं लोकप्रसिद्धम् / एवञ्च खल इव खल इव स्खल इति मालोपमा ध्वन्यते / प्रकरणेनैकस्यैवार्थस्य वाच्यत्वाद् अन्यस्य व्यङ्गयत्वात् / मालोपमा लक्षणन्तु-"मालोपमा यदेकस्योपमानं बहु दृश्यते” इति / अत्रैकस्यैव खलस्यानेकमुपमानं ध्वन्यते / तथा अत्र समानविशेषणमहिना खले दीपवर्तिव्यवहारसमारोपात समासोक्तिरलङ्कारः / तथाहि पात्रे जलं निधाय तत्र तैलं क्षिप्यते-तत्र च वर्तिस्तिष्ठति, सा च अबश्चनास्थितं तैलं न मलिनयति, स्वयमेव दीपशिखया दहन्ती कज्जलाविला भवति, तेजसा च स्वक्षये गवां किरणानां दीपप्रभाणां पोषणं करोति, न हि वर्तिदाहं विना दीपेन प्रकाशः शक्यो भवितुम् / एवञ्च स्पष्टमेव समानविशेषणेन दीपवर्तिव्यवहारसमारोपः खले इति / एष च श्लोकः व्याजस्तुतिपर्यवसाय्यपि, तथाहि खलः कपटस्नेही, मलिनः, मरणानन्तरं लोकनिन्दाविषयश्चेत्यर्थो लभ्यते गूढः / सामान्यतस्तु-स्नेहं परित्यज्यापि स्वयमेव मलिनो भवति, मृतेरनन्तरमपि वाणीपोषक इति स्तुतिरूपोऽर्थो लभ्यते / एवं पूर्वद्वयश्लोकेऽपि व्याजस्तुतिरित्यनुसम्बन्धेयम् // 27 // ____ अथ पुनरपि दुर्जनस्य व्याजस्तुतिमेवाचरति-न चेतिन च क्षमायामपि मूलमुन्नतं, यदीयमिष्टं सुमनःफलं न सा / प्रवर्धमाना खलता निरर्गलं, सचेतसः कस्य न विस्मयावहा // 28 // व्याख्या-यदीयं-यत्सम्बन्धि यस्या इत्यर्थः / मूलम्-आशयः बुध्नश्च “मूलं बुधन" इत्यमरः / थमायां-भान्त्यां सहिष्णुतायाम् पृथिव्याश्च “क्षितिक्षान्त्योः क्षमा" इत्यमरः / उन्नतमुटुर्नापि या न क्षमावती, न च पृथिव्यां प्ररूढ़ा इत्यर्थः, तथा यदीयं सुमनस:-शोभनस्य मनसः फलम् / सर्पस्येव दुर्जनस्य सुमनोऽपि वस्तुगत्या दुर्मन एवेति विपरीतलक्षणायां दुर्मनसः फलम् दुर्मनसो यत्फलम् परपीडनादि, तथा सुमनसः कुसुमानि च फलानि च एषां समाहारः इत्येवं द्वन्द्वे सति एकवद्भावः "लियः सुमनसः पुष्पम्" इत्यमरः / न इष्टम्-न प्रियं, न प्राप्यञ्च / सा निरगलमर्गलया-प्रतिबन्धेन रहितं यथा