________________ [18] व्याख्या-खलः-दुर्जनः। यदि-चेत् / गुणान्-सद्धर्मान् / अगृहन-अस्वीकुर्वन् / निन्द्यतेविगीयते / तर्हि तथास्थिती-गुणान् अगृह्णन्तौ, माता च पिता च इति मातापितरौ कथं कस्मान्न, निन्द्यते इति शेषः / अयं भावः-कारणगुणाः कार्यगुणानारभन्ते इति नियमात् मातापितृगुणः पुत्र प्रवर्त्तते नतु पुत्रगुणः मातापित्रोः, एवञ्च मातापित्रोरपि गुणाग्राहकत्वात् निन्द्यत्वं प्रसज्यते इति भावः / तस्मान्न गणाग्रहणमात्रेण कोऽपि निन्द्यः / अथेति पक्षान्तरे। अपरस्य इति विशेषणात्-विशेषणदानात् , इत्यपि न / मातापित्रौ हि पुत्रापेक्षया अन्यस्य गुणग्राहकौ इति तौ न निन्द्यौ, दुर्जनस्तु न कस्यापि गुणग्राहक इति स निन्द्य इत्युत्तराशयः / तदपि न सम्यक् / तदाह तर्हि-तथा सति अपरस्य इति विशेषणदाने सति / तुल्यता-ऐक्यं इदं वाच्यं-खलशब्दवाच्यम् / नालिङ्गति-न स्पृशति / अयं भावः-सामान्यतोऽपरस्येति विशेषणदाने पूर्वोक्तदोष तादवस्थ्यम्, पुत्रस्यापि अन्यत्वात् , पुत्रापेक्षयाऽन्यस्येत्युक्तौ च खलशब्दस्य नानार्थत्वापत्तिः। यतः यस्य यस्य यो गुणान् न गृह्णाति तत्तदपेश्या तस्य खलत्वापत्तिः सज्जनस्यापि, एवञ्च यस्य यस्य गुणाग्रहणं तत्तदन्यत्वं निवेशनीयम् , न च तेषां केनचिदेकेन रूपेणानुगमः शक्यः कर्तु, यत्तद्घटितस्य च निर्वचनस्याननुगतत्वमेव / एवञ्च खलशब्दस्याननुगतार्थत्वेन नानार्थत्वात् सज्जनेऽपि कदाचित्खलत्वसंभवः, इति सर्वस्यैव निन्द्यत्वापत्तिः ? नहि कोऽप्येकस्तादृशः पुमान् यः सर्वस्य गुणान् गृह्णाति / ततश्च निन्दाप्रशंसयोन काऽपि मर्यादा निश्चिता भवति, इति सज्जनवद् दुर्जनस्यापि प्रशंसने बाधकाभाव इति // 26 // ननु सज्जनः स्वयं मलिनो भवति नान्यं मलिनयति / किञ्च स स्वक्षयेऽपि परं पुष्णाति, इति विशिष्टगुणवत्तया स एव स्तोतव्यः, नतु दुर्जनः, स त्वन्यमेव मलिनयति, स्वञ्च पुष्णाति इति चेत्तत्राहविमुच्येति विमुच्य यः स्नेहमवञ्चनास्थितं, दधाति मूर्ति सहसा मलाविलाम् / निजक्षये पोषणमाचरन् गवां, खलः कथङ्कारमयं न वर्ण्यताम् // 27 // व्याख्या-यः-खलः दुर्जनः कणमर्दनस्थानं तिलकल्कश्च 'दुर्जनः खलः' इत्यमरः / खलधानं पुनः खलं' इति हैमः / 'पिण्याकखलौ' समो, इति हैमः / न वञ्चना अवश्चना तया स्थितं निष्कपटमिति यावत् / वञ्चनं तु प्रतारणं इति हैमः / पक्षे अपां जलानां अश्चना क्षेपस्तया कृत्वा स्वस्मिन् स्थितमवञ्चनास्थितम् / तथा अपां गोमयमिश्रितजलानां अश्चना लेपना तया स्थितम् / स्नेहं-प्रेम,तैलं, स्निग्धतां च "तैलं स्नेहः" इति "स्नेहः प्रीतिः प्रेमहादे" इति च हैमः / विमुच्य-परित्यज्य,तथा अप्सु जलेषु अश्वना क्षेपस्तया स्थितमुपरितरन्तम् स्नेहं विमुच्य। सहसा-मटित्येव / मलाविलां-मलेन मालिन्येन श्यामलिम्ना कज्जलेन च आविलामनच्छां / मूर्ति-स्वरूपं / दधाति 'अनच्छं स्यादाविलं कलुषश्च तदि' ति हैमः / तथा निजक्षये-स्वनाशेऽपि / गवां-वाचां वृषभानां .. सौरभेयीनां प्रभाणां च “गौर्गीर्वाणी भाषेति" हैमः, 'गौर्बलिवर्दश्चेति', 'गौः सौरभेयी माहेयी' इति च हैमः /