________________ [ 17 ] सज्जनशब्दवाच्य एव केवलं / योग्यतां-पात्रत्वं / न स्पृशति-भजति, लोकप्रसिद्धः सज्जन एव सज्जनस्य स्तुतिं कर्तुं योग्य इति न, ननु लोकविरुद्धं त्वया कुत उच्यते, तत्राह / यतः-यस्मात् कारणाव / स्वभावादपिनिसर्गत एव तौ-सज्जनौ स्तोतृस्तुत्यौ / परस्परम्-अन्योऽन्यं / गुणान-प्रशंसाविषयधर्मान् / ग्रहीतुं-सन्तुं / स्वत-आत्मना / एव, सोद्यमौ-सयत्नौ / एवञ्च तयोः परस्परप्रशंसनं सिद्धसाधनमेव न किमपि तदपूर्वमिति भावः / यद्वा पूर्वार्धे एवकारो भिन्नक्रमः, तथा च सज्जनः सज्जनस्यैव स्तवनीयताविधौ योग्यतां स्पृशतीति न, सज्जनेन सज्जन एव स्तोतव्य इति न नियमः। यतः तयोः स्वत एव परस्परं गुणग्रहणप्रवणत्वात् , परस्पर प्रशंसनं स्वेन स्वस्य प्रशंसनमिव निष्फलमेव, अतः सति संभवे दुर्जनोऽपि स्तोतव्य एवेति गूढार्थः // 24 // ननु भवतु दुर्जनोऽपि प्रशस्यः, किन्तु प्रशंसा गुणस्यैव भवति, न च दुर्जने कोऽपि गुणः, तथा च किं स्तूयताम् ? इत्याशङ्कय हेतुप्रदर्शनपुरस्सरं तस्य प्रशस्यत्वं व्यवस्थापयति-तत इति ततः प्रशस्यः परमत्र दुर्जनः, परोपकारप्रवणः स्वभावतः / ग्रहात् समादाय निबद्धदूषणं, समुज्ज्वलं यः कुरुतेतरां परम् // 25 // व्याख्या-ततः- उक्तहेतोः / स्वभावतः-निसर्गादेव / परोपकारप्रवणः-परोपकारपरायणः / एतेन स्तोतव्यत्वे हेतुरुक्तः, स्तोतव्यत्वे हि बीजं परोपकारप्रवणत्वम् , तञ्च सज्जने दुर्जने चोभयत्र समानमिति / अत्र-द्वयोर्मध्ये / दुर्जनः खलः / परमत्यन्त। प्रशस्य:-स्तोतव्यः / परोपकारमेव विवृणोति / यः खलः, निर्बन्धोपरागार्कादयो प्रहाः' इत्यमरः। तत्र निर्बन्ध आग्रहविशेषः इत्युक्तेः / ग्रहात्-आग्रहविशेषाद् / निबद्धं-संसक्तं दषणं-दोषं / समादाय-नीत्वा, दुर्जनो हि परदोषमेव प्रकटयति, अथवा निबद्धदूषणं दोषिणमेव स्वलक्ष्यीकरोति,तथा च यस्य पुंसः यस्य यस्य दोषस्य प्राकट्यं दुर्जनेन क्रियते स तं तं दोषं परित्यजति, यद्वा दोषिणो ग्रहणे तदपेक्षयाऽन्यः निर्दोष एव परिशेषाद्भवति / एवञ्चोभयथाऽपि दुर्जनः / परमन्यं / समुज्ज्वलं-निर्मलं निर्दोषम् / कुरुतेतराम-विधत्तेतराम् / एवञ्च दुर्जन एवातिशयेन प्रशस्यः, सज्जनस्तु गुणान् स्तौति, न तु दूषणान् प्रकटयति / एवञ्च स प्रकारान्तरेण दोषावरणद्वारा दोषिणः प्रोत्साहक एवेति स नात्यन्तं प्रशस्यः, इति भावः / यद्वा यश्चाण्डालादिदुर्जनः “उपरागो ग्रहः" इत्यमरोक्तेः ग्रहाव उपरागात् चन्द्रस्य सूर्यम्य वा राहुणा प्रासात् निबद्धं संसक्तं दोषं समादाय नीत्वा उच्चैस्वरेणोद्वोष्य स्नानादिद्वारा परमन्यं समुज्ज्वलं पवित्रं करोति / एवञ्च दुर्जनः परोपकारकरणप्रवणत्वाद् दुर्जनः प्रशस्य एवेति भावः // 25 // ननु दुर्जनः परदोषप्रकाशक एव, नतु परगुणग्राहक इति स निन्द्य एव, सज्जनस्तु परगुणप्राहक इति स प्रशस्यः, इत्याशङ्कथाह गुणानिति - गुणानगृह्णन् यदि निन्द्यते खलः, कथं न मातापितरौ तथास्थितौ / अथापरस्येति विशेषणादिदं, न वाच्यमालिङ्गति तर्हि तुल्यता // 26 //