________________ एतत् संभाव्यते, तत्राह-गजाननं--गजस्य हस्तिनः आननमिवाननं यस्य तं गणपतिम् / "अप्येकदन्त हेरम्बलम्बोदरगजाननाः" इत्यमरः / पूजयता--अर्चयता / जनेन-लोकेन / अमुष्य-गणेशस्य / यानं-वाहनं मृषक:-आखुः / 'उंदुरूर्मूषकोऽप्याखु' रित्यमरः / न पूज्यते-अर्च्यते किम् ? अवश्यं पूज्यते, एवञ्च तस्य पूजा महतो गणेशस्याश्रयप्राप्तेरेव, अन्यथाऽन्योऽपि तादृग्नीचस्तियंग्योनिः किं न पूज्यते ? अतो महतामाश्रयणान्नीचपूजा संभाविताऽस्ति / अतो मयापि दुर्जनः स्तूयते इति न तत्र विप्रतिपत्तव्यम् / अत्र गणेशाश्रयतो मूषकपूजनरूपेणार्थेन साधर्म्यात सामान्यः महीयस्सामीप्यान्नीचपूजनरूपः अर्थः समर्थ्यत इति विशेषण सामान्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः। तल्लक्षणं यथा-"सामान्यं वा विशेषेण विशेषस्तेन वा यदि, कार्यश्च कारणेनेदं कार्येण च समर्थ्यते / " 'साधम्र्येणेतरेणार्थान्तरन्यासः स इष्यते / " इति // 22 // अथ दुर्जनस्तुतिमेव प्रकारान्तरेणापि समर्थयति-जडोऽपीतिजडोपि निर्व्याजमहत्वभाजनं, जनः क्षणादेव गरिष्ठसंश्रयात् / / निधीयते मूर्धसु कैर्न वा जलं, सुरापगाया अपि कश्मलाविलम् // 23 // व्याख्या-जडोऽपि-मूर्योऽपि,अपिना धीमानपि जनः / अतिशयेन गुरुरिति गरिष्ठ:-महत्तमस्तस्य। संश्रयात-संसेवनाद, गुरुतरजनसंसर्गाव / क्षणादेवाचिरमेव / निर्व्याज-निष्कपटं निर्मलं / महत्वभाजनंयन्महत्त्वं गौरवं तत्प्रयोज्यसम्मानादि, तस्य भाजनं पात्रं भवतीति शेषः। एतदेव समर्थयति, तथाहिसुरापगाया:-सुराणां देवानामाऽऽपगा नदी गङ्गा " स्वर्गि-खापगा” इति हैमोक्तेः / तस्याः जलं कश्मला- . विलमपि-कश्मलेन कुत्सितेन धूल्यादिनाऽऽविलमपि व्याप्तमपि कलुषितमपि / मूर्धसु-शिरस्सु। कै-किं नामधेयैनं वा-न हि। निधीयते-धार्यते ? अपि तु सर्वैरेव धार्यते / एवञ्च कश्मलस्य शिरसि धारणं गरिष्ठगङ्गाजलसंपर्कादेवेति सुष्टूक्तं गरिष्ठसंश्रयाज्जडोऽपि निर्व्याजमहत्त्वभाजनमिति / अत्रापि पूर्वपद्यवदर्थान्तरन्यासोऽलङ्कारः // 23 // ननु सज्जन एव स्तोतव्यः, दुर्जनस्तु निन्दापात्रमेवेति सर्वजनसिद्धम् / एवञ्च दुर्जनं स्तोतुं तवायं प्रयासस्तुषकण्डनमेवेत्याशङ्कय समाधत्ते-न सज्जनस्येति न सज्जनस्य स्तवनीयताविधौ, स्पृशत्ययं सजन एव योग्यताम् / यतः स्वभावादपि तौ परस्परं, गुणान् ग्रहीतुं स्वत एव सोद्यमौ // 24 // ... व्याख्या-सजनस्य-सतः परोपकारकरणादिसद्गुणविशिष्टस्य जनस्य। स्तवनीयताविधौ-स्तबनीयतायाः स्तुतेविधिः विधानं तत्र, स्तुतिकर्मणि / अयम्-अस्मिल्लोके महामहिमशालित्वेन रूढः / सजन: