________________ _[15] करोतीति स. तस्यापि सतः-सज्जनस्य, विनिर्मितिः-निर्माण, पूर्णचन्द्रेण-राकाचन्द्रेण, न शङ्कयते-नानुमीयते नोत्प्रेक्ष्यते / ननु चन्द्रोऽपि जगत्त्रयाह्लादकृत्सज्जनोऽपि तादृशः, एवञ्च कार्येण कारणानुमानस्य निष्प्रत्यूहत्वाचन्द्रेण सतो विनिर्मितिः सिद्धैवेति चेन्न / तदाह-तथा सति--पूर्णचन्द्रेण सतो निर्माणस्वीकारे सति / हेतुगता-कारणगता चन्द्रगतेत्यर्थः / कलङ्किता-मालिन्यम् / अत्र-सज्जने / प्रवर्तमाना-अनुसरन्ती / कथं-केन प्रकारेण / वार्यताम् --निरुद्धयताम् ? अयं भावः- यदि पूर्णचन्द्रेण सतो निर्माणं स्यात्तदा पूर्णचन्द्रगतकलङ्किता सज्जनेऽपि स्यात्, आह्लादकत्ववत् / 'कारणगुणा हि कार्यगुणानारभन्ते', इति नियमात् / सा च सज्जने न दृश्यते, आह्लादकत्वमात्रं दृश्यते, इति आह्लादकत्वं हेतुर्न प्रयोजकः, व्यभिचारशङ्कानिवर्तकतर्कशून्यत्वात् / अत्र कलङ्कितत्वाभावहेतुना सतः पूर्णचन्द्रेणानिर्माणानुमानादनुमानाख्योऽलङ्कारः, तल्लक्षणं यथा"अनुमानं तु विच्छित्त्या ज्ञानं साध्यस्य साधनात्" इति // 20 // ननु माऽस्तु पूर्णचन्द्रेण सतो विधानम् , पूर्वोक्तविप्रतिपत्तेः, चन्दनेन तु अस्तु, न च तत्र पूर्वोक्तविप्रतिपत्त्यवसरः, तस्य निष्कलङ्कृत्वादित्याशङ्कायां. तदपि नेत्याह-सत इति सतोऽन्यसन्तापहतोऽपि तय॑ते, न चन्दनेनापि विधानकल्पना / यतो न काठिन्यमवेक्ष्यतेतरां, न चात्र हृद्ग्रन्थिरवाप्तघर्षणः // 21 // व्याख्या-अन्यसन्तापहृतोऽपि--अन्यस्य परस्य सन्तापं हरतीति स तस्य परसन्तापहारकस्यापि / सतः-सज्जनस्य / चन्दनेन--मलयजेनाऽपि विधानस्य-निर्माणस्य,कल्पना-शङ्का / न तय॑ते--न तर्कविषयिणी / सन्तापहरणरूपकार्येण चन्दने सज्जनकारणत्वानुमानम् न तर्कसिद्धम् , चन्दने परसन्तापहारकत्वधर्मस्त्वकिञ्चित्करः कुतस्तत्राह-यत:--यस्मात् कारणात् / अत्र--सज्जने काठिन्यं-कर्कशता / न अवेक्ष्यतेतराम्न दरीदृश्यते / अवाप्तवर्षणः--प्राप्तसङ्कर्षः हृद्ग्रन्थि:-हृदयगतगूढमाया च नावेक्ष्यतेतराम्, कारणगुणानां कार्यगुणारम्भकत्वनियमात् , चन्दनस्य सज्जनकारणत्वे परसन्तापहरणगुणवत् कर्कशत्वस्य अवाप्तघर्षणहृदूनन्थेश्चात्र सत्त्वं स्यात् , तच नास्ति, अतः न चन्दनं सज्जनकारणमिति भावः / अत्रापि पूर्वश्लोकवत्अनुमानाऽलङ्कारः // 21 // अथ न केवलं सज्जन एव स्तोतव्यः किन्तु दुर्जनोऽपि, तस्य स्तोतव्यत्वे भूमिका रचयतिमहीयसामिति महीयसामाश्रयसन्निधानतो, भवेल्लघीयानपि गौरवास्पदम् / . गजाननं पूजयता जनेन किं, न पूज्यते यानममुष्य मूषकः // 22 // व्याख्या-महीयसाम्--अतिशयेन महताम् / आश्रयस्याश्रयणस्य / सन्निधानतः-प्राप्तेः, महत्सामीप्यात् / लघीयान्-अतिशयेन लघुलंबीयानतिनीचोऽपि गौरवस्य-सम्मानस्य / आस्पद-पात्रं भवेत् / कुत