________________ अपिविरोधे। कुत्रचनाऽपि-कापि / परमत्यन्तं / हिंसका-घातका न / अत्र यो हि बाणमूलभागस्थः स न हिंसक इति विरोधः, बाणस्य हननमात्रे नियोगात् / तत्परिहारस्तु सुपर्वाणो देवाः "सुपर्वसुरनिर्जरे" ति हैमः। तेषां पक्षस्तदायिणोऽपि आस्तिकत्वात् देवपूजका अपि हिंसकाः, यागादौ छागादिप्राणिघातकाः अर्थाद्देवपूजार्थमेव, न-नैव / यद्वा सुष्ठु पर्व सुपर्व तस्य पक्षः श्राद्धयागादितिथिः तस्य देवपितृकार्यार्थमाश्रायिणोऽपि हिंसका न,तत्र शास्त्रे सन्नृत्वान्यथाऽनुपपत्तेः प्राणिघातनिषेधाव / यद्वा सुष्ठु पर्व पर्युषणादि महापर्व तस्य पक्षोऽभ्युपगमः तदायिणोऽपि तदाराधका अपि ये हिंसका न, अर्हपूजाद्यर्थ श्रावकाणां यथाकथञ्चिजलपुष्पादिजीवहिंसाभावेऽपि भावविशुद्धः, साधूनां तु हिंसापरिहारित्वात् / भुवि-पृथिव्यां / तेभ्यः-तादृशगुणविशिष्टेभ्य एव. नान्येभ्यो देवपूजार्थ पशुघातकेभ्यः / सद्भय:- सज्जनेभ्यः / मे-मम / नमः-नमस्कारः / निश्चितं अस्तु-- भवतु / अत्र विरोधाभासोऽलङ्कारः // 18 // ____ अथाधिकस्याधिकं फलमिति कृत्वा पुनः सज्जनानेव स्तौति-परस्येतिपरस्य सन्तापमपाकरोति यः, स्वजीवनेनापि नभस्यमेघवत् / करोति यो वा सुमनोऽभिवर्धन, न सज्जनः कस्य मुदं तनोति सः॥१९॥ व्याख्या-या-सज़नः / नमस्यमेघवत्--भाद्रपदीयवारिदवत् / स्वजीवनेनापि--स्वस्य जीवनं जीवितं सटिलच तेनाऽपि / परस्याऽन्यस्य / सन्ताएं--दुःखं तापश्च / अपाकरोति-दूरीकरोति, सर्वेषामेव जीवनं सर्वस्मात प्रियतरम् , येन केनापि प्रकारेण तद्रक्षति, सज्जनस्तु मेघवत् परसन्तापनाशार्थ तदपि विसृजतीति महद्वैशिष्टयमस्येति भावः / तथा सुमनोऽभिवर्धन--सुमनसां देवानां पण्डितानाश्च पक्षे पुष्पाणाश्चाभिवर्धनम् , अभितो वृद्धि पोषणञ्च यः करोति-विदधाति, स्वजीवनेनापीत्यनुषज्यते, स--तादृशः / सजन:-साधुः / कस्य मुदं-प्रीति / न तनोति-विस्तारयति, अपि तु सर्वस्य विस्तारयत्येव / अत्रोपमाऽलङ्कारः। स च स्वजीवनमिति सुमनोऽभिवर्धनमिति च श्लेषानुप्राणितः / किञ्च पुष्पाभिवर्धनमन्यव देवपण्डिताभिवर्धनश्चान्यद, द्वयोभेदेऽप्यभेदोक्तिरूपातिशयोक्तिः / एषाऽपि चोपमायाः अङ्गमेवेति, त्रयाणामङ्गाङ्गिभावः सङ्करः। 'स्युनभस्यप्रौष्ठपदभाद्रभाद्रपदा समाः' इति / 'जीवनं मुवनं वनं, पयः' इति / 'जीवनं जीवितं समे' इति / 'सुमनसः पुष्पम्' इति / 'सुपर्वाणः सुमनसनिदिवेशा दिवौकस' इति चामरः // 19 // अथ सज्जनानेव स्तुवन् तस्यानुपमेयत्वमाह-न पूर्णचन्द्रेणेतिन पूर्णचन्द्रेण सतो विनिर्मितिर्जगत्त्रयाह्लादकृतोऽपि शङ्कयते / कलङ्किता हेतुगता तथासति, प्रवर्तमाना कथमत्र वार्यताम् // 20 // व्याख्या-जगत्त्रयाह्लादकृतः-त्रयोऽवयवा अस्येति त्रयं, जगतां त्रयं जगत्त्रयं, तस्याहादमानन्दं