________________ - [13] भाषा, "शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः” इत्यमरः / सरस्वती वाणी "गीर्वाग् वाणी सरस्वती" इत्यमरः / अभ्युदयमभ्युमतिमाविर्भावं वा बमार-प्राप / ते-तादृशा विलक्षणगुणविशिष्टाः / महाशया:-- महान् आशयोऽभिप्रायो येषां ते तादृशः, सकलजनहितचिन्तादिधर्मयुक्तत्वेनात्युदाराशयाः / ग्रन्यकृत:निबन्धरचयितारः / जयन्ति-सर्वोत्कर्षेण वर्तन्ते / अत्र समुच्चगोत्रेभ्य इत्यादिशब्दशक्तिमूलः सरस्वती सरस्वतीवेत्युपमा ध्वनिः / तथा श्लिष्टविशेषणमहिम्ना वाण्यां नदीव्यवहारसमारोपाव समासोक्तिरलकारः // 17 // अथ साधून स्तौति-निसर्गेतिनिसर्गकारुण्यनिवासभूमयः, परार्थनिर्माणनिबद्धचेतसः / असंस्तुतस्यापि रता गुणस्तुतौ, चिराय ते केऽपि जयन्ति साधवः // 17 // व्याख्या-निसर्गात्स्वभावादेव न तु परप्रेरणया। कारुण्यस्य-करुणायाः “कारुण्यं करुणा घृणे" त्यमरः / निवासस्य-स्थितेः / भूमयः, प्राणिमात्रे स्वभावदयालवः, न तु नटादिवत् कृत्रिमदयालवः / परार्थाय-परस्यार्थः प्रयोजनम् , तस्मै तत्सम्पत्त्यै परोपकृतये यनिर्माणं-विधानं क्रिया तत्र / यद्वा परार्थस्य यन्निर्माणं विधानं परोपकारकरणं तत्र निबद्धं-तदेकतानं चेतश्चित्तं येषां ते तथोकाः / यद्वा परमार्थकरणप्रसन्नमनसः इति / परशब्दः परमार्थकोऽत्र / यद्वा परः प्रकृष्टः अर्थः प्रयोजनं मोक्षलक्षणं फलं तस्य यन्निर्माणं सम्प्राप्तिः स्वस्यातिनिर्मलचारित्राराधनाद्वाराऽन्येषां भव्यानां जिनोपदिष्टतत्त्वोपदेशद्वारा शीघ्रं कथं स्यादित्येवं निबद्धचेतसः / तथा असंस्तुतस्याऽपरिचितस्यापि "संस्तवः स्यात् परिचयः" इत्यमरः। गुणस्तुतौ-गुणकीर्तने / रता:-अनुरक्ताः, परिचितस्य हि गुणान् परिचयमर्यादारक्षणाय सर्व एव स्तौति, अपरिचितस्य तु पुनः निरुपंकृताऽनभिलाषिणः साधव एव गुणान् स्तुवन्तीति भावः। केऽपि-अनिर्दिष्टनामानः महात्मानः, मोक्षमार्ग साधयन्तीति साधवः, मोक्षमार्गे सीदतां साहाय्यदानबद्धचित्ताः इति ते परोपकृतिप्रवणाः / चिराय.. दीर्घकालं / जयन्ति--सर्वोत्कर्षेण वर्तन्ते / अत्र जातिरलङ्कारः // 17 // अथ तानेव प्रकारान्तरेण पुनरपि स्तौति-पुरस्सरा इतिपुरस्सरा धार्मिकलोकसंहतेः, परं न ये कुत्रचनापि हिंसकाः। सुपर्वपक्षाश्रयिणोऽपि निश्चितं, नमोऽस्तु सद्भयो भुवि तेभ्य एव मे // 18 // व्याख्या-ये-सन्तः / धार्मिकलोकसंहतेः-धर्म चरन्तीति धार्मिकाः धर्माचरणपरायणास्ते च ते लोकाश्च, तेषां संहतिः, समूहस्तस्याः धार्मिकजनतायाः / पुरस्सरा-अग्रेसराः, धर्मकार्याणां प्रधानप्रवर्तकाः, तथा सुपर्वपक्षाश्रयिणः-सुपर्वणां बाणानां पक्षः बाणाऽवयवः, तदायिणः बाणमूलभागस्थायिनोऽपि,