________________ [ 12 ] अथ गुणभद्रसूरि स्तौति-प्रवादेतिप्रवादविद्याजितदेवसूरये, चरित्रविद्योतितदेवसूरये / स्वदेशनारञ्जितदेवसूरये, नमोनमः श्रीगुणभद्रसूरये // 15 // * व्याख्या-प्रवादविद्याजितदेवसूरये-प्रकृष्टो वादः प्रवादस्तस्य विद्या तत्करणाऽपूर्वजानकला तया जितः देवानां सूरिः पण्डितः बृहस्पतिर्येन स तस्मै, “धीमान् सूरिः कृती" त्यमरः / चरित्रविद्योतितदेवसूरये-चरित्रेण शुद्धपश्चाचाराऽऽचरणेन विद्योतितः प्रसिद्धि प्रापितः देवसूरिः स्वगुरुः देवसूरिनामाचार्यो येन तथोक्तस्तस्मै, शिष्यख्यात्या हि आनुषङ्गिकी गुरुख्यातिरितिभावः / स्वदेशनारञ्जितदेवसूरयेयारस्वदेशनास्स्वकीयोपदेशगिरः ताभिः रञ्जितौ प्रीणितौ देवश्च सूरिविद्वांश्च तौ देवसूरी येन सः तथोक्तस्तस्मै / श्रीगुणभद्रसूरये नमो नमः-भूयो नतयः सन्त्विति शेषः / अत्र बृहस्पतिजयसम्बन्धाभावेऽपि तदुक्तरसम्बन्ध सम्बन्धरूपाऽतिशयोक्तिरलङ्कारः // 15 // अथ सामान्यतः कवीन् स्तौति-क्षमाधरेभ्यः इतिक्षमाधरेभ्यः कमलोत्तमाश्रया, समुच्चगोत्रेभ्य इवोल्लसद्रसा। बभार येभ्योऽभ्युदयं सरस्वती, महाशयो ग्रन्थकृतो जयन्ति ते // 16 // व्याख्या-समुच्चगोत्रेभ्यः--समुच्चानि उन्नतानि तत्तक्रियाभिः प्रसिद्धानि अथवा समुच्चानि उन्नति प्रापितानि गोत्राणि कुलानि येषां यैर्वा ते तादृशास्तेभ्यः “गोत्रं कुलाख्ययोः" इति मेदिनी / “गोत्रं तु सन्तानोऽन्ववायोऽभिजनः कुल" मिति हैमः / “तुङ्गमञ्चमुन्नतमुद्धर” मिति हैमः / पक्षे समुचा अत्युन्नता गोत्राः पर्वताः लक्षणया शिखराणि येषां ते तथोक्ताः, तेभ्यः, समुन्नतशिखरेभ्य इत्यर्थः / 'गोत्रोऽचल: सानुमान्' इति हैमः / क्षमाधरेभ्यः-क्षमा शान्तिः सहिष्णुता वा तस्याः धरन्तीति धरास्तेभ्यः, अपराधकारिण्यपि क्षमया सहिष्णुत्वाद प्रतीकाराऽकरणेनोपकारकारकेभ्यो मुनिभ्यः, "क्षितिक्षान्त्योः क्षमा" इत्यमरः / “तितिक्षा सहनं क्षमा" इति हैमः / पक्षे-क्षमायाः पृथिव्या धराः महीधरास्तेभ्यः / येभ्यः-ग्रन्थकृदयः / कमलोत्तमाश्रया-कमलया लक्ष्म्या हेतुना उत्तमाः लोकपूज्या नृपादयः आश्रया वर्णनीयत्वेन विषया यस्याः सा तादृशी / 'पद्मा कमला श्री'रित्यमरः / पक्षान्तरे 'कमलं नलिनं पद्म', मिति हैमोक्तेः / पक्षे कमलानां पद्मानाम् उत्तम इतरविलक्षण आश्रय आश्रयणं यस्याः यस्यां वा सा तादृशी, उत्तमाश्रयत्वेन यत्र कमलानि प्राचुर्येण सन्ति इत्यर्थः / उल्लसद्रसा-उल्लसन् स्वादुशीतलत्वादिगुणयुक्तत्वेन हृद्यः सततजलाधारत्वेन वर्धिष्णुर्वा रसो जलं यस्या यस्यां वा सा, सुस्वादुशीतलसलिलेत्यर्थः / सरस्वती--तदाख्या नदीव 'ब्रह्मपुत्रा सरस्वती' इति हैमः / पक्षे उल्लसन् सकलजनहृदयावर्जकतया विलसन्तो रसाः शृङ्गारादिनव रसा वर्णनीयतया यत्र सा तादृस्व