________________ [11] अथार्वाचीनेषु देवसूरेरप्रतिम-प्रतिभाशालित्वात्तं स्तौति- अतिष्ठिपदितिअतिष्ठिपनिर्वृतिमङ्गनाजने, विजित्य ये दिक्पटमागमोक्तिभिः / विवादविद्याविदुरं वदावदा, जयन्ति तेऽमी प्रभुदेवसूरयः // 13 // व्याख्या-ये-देवसूरयः, विरुद्धो वादो विवादस्तस्य विद्या ज्ञानकला तां वेदितुं शीलमस्येति स विवादविद्याविदुरः-विरुद्धवादकुशलस्तम्। दिकपटम्-दिगेव पटो वस्त्रं यस्य तं, दिगम्बरसम्प्रदायानुसारिणम् कुमुदचन्द्रम् / आगमोक्तिमि:-आगमे शास्त्रे प्रतिपादिता या उक्तयः वचनानि ताभिः, न तु स्वकल्पिततकैरेवेति भावः / एतेन स्त्रीनिर्वृतिस्थापनस्य प्रमाणमूलत्वाच्छ्रद्धेयतेति सूचितम्, दिक्पटानामागमानभिज्ञत्वं, तदुक्तेश्च प्रमाणापेतत्वादश्रद्धेयत्वञ्च द्योतितम् / वदावदा:-शास्त्रमर्यादया अतिशयेन वदन्तीति वदावदा वक्तारः शास्त्रार्थनिपुणाः / 'वदो वक्ता वदावद' इति हैमः / विजित्य-पराजित्य तन्मतमुन्मूल्य / अनाजने-स्त्रीलोके। निति-मुक्तिम् / अतिष्ठिपन्-स्थापितवन्तः / स्त्रीणां न मोक्ष इति दिगम्बरा, श्वेताम्बरास्तु तासामपि मोक्ष इति मन्यन्ते इति भावः / “निर्वाणं निर्वृतिः सुख" मित्यमरः / ते-ताशा अलौकिकप्रतिभावन्तः / अमी-वर्णनविषयाः। प्रभवः-तपागच्छनायकाश्च ते देवसूरयस्तदाख्याः सूरयः, जयन्तिसर्वोत्कर्षेण वर्तन्ते / 'नायको नेता प्रमुरित्यमरः // 13 // अथ पुनस्तत्प्रभावान्तरं निर्दिशन् तमेव स्तौति-सिताम्बराणामपिसिताम्बराणामपि यैश्च दर्शन, स्थिरं कृतं गूर्जरभूमिमण्डले / चलाचलं दिक्पटवादवात्यया, मनोमुदे ते मम देवसूरयः // 14 // व्याख्या-य:-देवसूरिभिः / दिपटवादवात्पया--दिक्पटानां दिगम्बराणां वादो विवाद एव वात्या चक्रवातो वातूलस्तया “वातूलवात्ये वातानां" इति हैमः / चलाचलं-कम्प्रमस्थिरमपि सिताम्बराणांश्वेताम्बराणां / दर्शन-शास्त्रम् / गर्जरभूमिमण्डले-गुर्जराख्यमूभागे। स्थिर-तन्मतं खण्डयित्वा निश्चलमसत्प्रतिपक्षं / कृतम्-प्रमाणभावाऽऽलिङ्गितं विहितम् / ते-तादृशाः शास्त्रमर्मज्ञाः / देवसूरयः मम मनोमदेमनसो मुदे हर्षाय भवन्त्विति शेषः / अत्र दिक्पटवादवात्येति रूपकालङ्कारः, वादस्य वात्यात्वेन रूपणा / यदुक्तम्- "रूपकं रूपितारोपे विषये निरपह्नवे” इति / निरपह्नवे इत्यपहुतेरविषये / तथा वात्यया चलाचलत्वमन्यव , वादेन च चलाचलत्वमन्यद, द्वयोर्भेदेऽप्यभेदोक्तिरित्यतिशयोक्तिरलारः / तस्य च पूर्वोक्तं रूपकमङ्गमिति द्वयोरङ्गाङ्गिभावः सङ्करः // 14 //