________________ [10] . अथ महामहिमत्वाद्गणधरं सुधर्मस्वामिनं स्तौति-चतुर्विधमितिचतुर्विधं सङ्घमशेषभावुकप्रसारवल्लीवनसारिणीनिभाः। इमा गणाधीशसुधर्मदेशनागिरश्चिरं पान्तु निपातितांहसः // 11 // व्याख्या-इमा:-अतीतकालोत्पन्ना अपि स्वातिशयमहिम्ना प्रत्यक्षतया अनुभूयमानाः / इदमः प्रत्यक्षवाचित्वात् / अशेषा:-सकला ये भावुका:-भव्याः प्राणिनः तेषां प्रसारः-विस्तारः स एव वल्लीनां-- लतानां “वल्ली तु व्रततिलता"इत्यमरः।वनम् काननम् काननं वनं'इत्यमरः, तत्र सारिणी-जलप्रवर्तककुल्या, तन्निभाः तत्सदृशाः / यथा हि सारिण्यः जलप्रवर्तनेन लताः पुष्णन्ति, अपायेभ्यश्च रक्षन्ति तथा गणधरगिरोऽपि भव्यान् भवक्लेशात् पान्ति, आत्मसामर्थ्यञ्च पुष्णन्ति विकाशयन्ति, इति तास्तत्सदृशाः, अत एव निपातितांहस:निपातितानि अंहांसि पातकानि याभिस्ताः, नहि दुरितविनाशमन्तरा भवक्लेशात त्राणम् , आत्मशक्तिपोषणञ्च सम्भवतीत्यर्थः / गणाधीश:-गणानामधीशः यः सुधर्मा-तदाख्यो गणधरस्तस्य देशनागिरः-उपदेशवचांसि चतुर्विध-श्रमणप्रधानं चतुःप्रकारकं सङ्घ, चिरं-दीर्घकालं यावद, पान्तु-रक्षन्तु / सन्मार्गप्रवर्तनद्वारेति शेषः / अत्रोपमालकारः स्पष्टः // 11 // अथागमं स्तौति-यदीयेतियदीयपार सुगम विपश्चितां, न पुण्यपोतं प्रविहाय केवलम् / जिनेन्द्रचन्द्राभ्युदये कथं न स, श्रुताम्बुधिर्वृद्धिमुपेतु नित्यशः॥१२॥ व्याख्या-विपश्चितां-विदुषाम् / केवलम-एकं / पुण्यं-धर्म एव पोत:-जलयानपात्रम् / 'यानपात्रे शिशौ पोख' इत्यमरः / तं, प्रविहाय-परित्यज्य / यदीयं-यच्छानाम्बुधिसम्बन्धि / पारं-परतीरं / सुगमसुखेन गम्यतेऽत्रेति सुगमं सुप्राप्यं न। न हि दुरितकलुषितस्वान्ताः शास्त्रे श्रदधते, न वा कलुषितबुद्धीनां तत्र प्रवेशसम्भवः, दूरे तत्पारप्राप्तिः, तस्या निर्मलबुद्धिगम्यत्वात् , तत्र पुण्यस्यैव प्रयोजकत्वादितिभावः / स-तादृशः / श्रुताम्बुधिः-श्रुतम् शास्त्रमेवाऽम्बुधिः समुद्रः स / जिनेन्द्रचन्द्राभ्युदये-जिनेन्द्र एव चन्द्रः, पछे जिनेन्द्रश्चन्द्र इव, तस्याभ्युदये समुदये / कथं-केन प्रकारेण / नित्यशः-प्रतिदिनम् / वृद्धि न उपैतुप्राप्नोतु / अपितु प्राप्नोत्वेव / चन्द्राभ्युदये हि सागरस्य वृद्धिरवश्यमेव भवतीति, चन्द्रतुल्यस्य जिनेन्द्रस्याभ्युदये अम्बुधितुल्यस्य शाखस्याभ्युदयो निष्प्रत्यूह एव / अत्र जिनेन्द्रस्य चन्द्रतया रूपणे सत्येव शाखस्थाम्बुधिया रूपणमुपयुज्यते / तत्र सत्येव च पुण्यस्य पोतत्वेन रूपणमुपयुज्यते इति परम्परिवरूपकाऽलकारः / सलम तु“यत्र कस्यचिदारोपः परारोपणकारणम् , तत्परम्परितम्" इति / तथाऽम्बुधिवृद्धिरन्या शासवृद्धिश्चान्या, योभैदेऽपि अभेदाध्यवसाय इत्यतिशयोकिरिति द्वयोरेकायानुप्रवेशरूपः सहरः // 12 //