________________ समुद्रं सम्मयाऽऽश्रयन्ति नतु सत्र समुद्रस्याणुमात्रोऽपि प्रयासस्तथाऽऽस्याऽद्भुतपुण्यप्रभावेणानायासेनैव तं युगपत् तास्सम्मिलन्ति, नत्वेककशो नवा पौर्वापर्येण / एतेनास्य मुवनाद्भुतोऽतिशयो व्यज्यते। स-तादृशालोकिकातिशययुक्तः / गौतमः-गौतमगोत्रोत्पन्नत्वात्तदाख्यो गणधरः / वा-युष्माकम् / शुभानि-मङ्गलानि कल्याणानि वा / सचिनुतां-प्रचयं प्रापयन्तु / अत्र वरमिति सामान्यविशेषणमहिम्ना लब्धिषु नदीषु च स्वयं पतिवरायाः स्त्रिया व्यवहारसमारोपः / रलाकरे गौतमे वरत्वव्यवहारसमारोपश्चेति समासोक्तिः, तल्लक्षणं यथा“समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः / व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुन" इति / सा च आपगा इवेत्युपमाऽनुप्राणिता / उपमालक्षणं तु-"उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः" इति / यथा नद्यः स्वयं समुद्रं श्रयन्ते तथा लब्धयो गौतममिति द्वयोः सादृश्यम् / एवञ्च द्वयोः सङ्करः / उत्तरार्धे च परस्परस्पर्धित्वस्य चेतनमात्रधर्मस्य अचेतनासु लब्धिषु सम्भावनादुत्प्रेक्षा, तल्लक्षणं यथा-"भवेत् सम्भावनोत्प्रेक्षा, प्रकृतस्य परात्मना" इति / अत्र च नदीनां समुद्रे प्राप्तिरिव लब्धीनां गणधरे प्राप्तिः प्रस्तुता / तत्र परस्परस्पर्धित्वं सम्भाव्यत एव, नतु तत्र वस्तुतस्तस्य सत्त्वम् , तस्य चेतनमात्रधर्मत्वात् / सा चोप्रेक्षा समासोक्त्याश्रयीभूतलब्धिविषयिणीति एकाश्रयाऽनुप्रवेशात्सङ्करः / एवञ्च त्रयाणामप्यलङ्काराणामत्र सङ्करः // 9 // अनुरागाधिक्यात्पुनरपि तमेव स्तौति-जगदितिजगत् त्रिपद्या परितोऽनवद्यया, कयापि यः श्रीपतिवद् व्यगाहत / अनन्तधामा गणभृद्विशेषकः, प्रसत्तये मे भवतात् स गौतमः // 10 // ___ व्याख्या-य:-गौतमः / श्रीपतिवत्-श्रियाः लक्ष्म्याः पतिः प्रियः श्रीपतिर्विष्णुः, स इव / कयाऽपिअनिर्वचनीयस्वरूपया / अनवद्यया-पवित्रतमया। त्रिपद्या-त्रयाणां पदानां समाहारः त्रिपदी, तया, पक्षान्तरे जिनेश्वरप्रोक्तया उत्पादव्ययध्रौव्यरूपया त्रिपद्या / जगत-त्रिमुवनं / व्यगाहत-व्याप्नोत् / यथा विष्णुमिनरूप: बलिराजयज्ञे दानप्राप्तां त्रिपदभूमि परिच्छिन्दन चरणत्रयेण जगत्रयं व्याप्तवान् , तथैव गणधरः उत्पादादित्रिपद्या जगत्त्रयं समावेशयत् , जगत्रयगतपदार्थमात्र त्रिपदीविषयमकरोदितिभावः / एवञ्चानिर्वचनीयोऽस्य प्रभावः, अत एव स अनन्तधामा-अनन्तमियत्तारहितं धाम प्रभावो यस्य सोऽनन्तधामा निःसीमप्रभावः / गणभृद्विशेषकः-गणभृत्सु गणधरेषु विशेषकस्तिलकः / 'तिलके तमालपत्र-चित्रपुण्ड्रविशेषका, इति हैमः / यथा तिलक उत्तमाङ्गस्थः तथा गौतमोऽपि गणधरेषु सर्वोपरिस्थ इति तिलकरूपः / एतेनापि तस्य सर्वविलक्षणं महत्त्वं सूचितम् / गौतमस्तदाख्यो गणधरः / मे-मम / प्रसत्तये-प्रसादाय / भवतात्-भूयात् / अत्र त्रिपद्येतिश्लेषानुप्राणितोपमेति सङ्करः / उत्तरार्धे च गणभृद्विशेषक इति रूपकं लुमोपमा वा,तस्य च पूर्वाधोंपात्तोपमानिरपेक्षत्वाद, संसृष्टि माऽलकारः / तल्लक्षणश्च 'मिथोऽनपेक्षयेतेषां स्थितिः संसृष्टिरुच्यते'इति।।१०।। 1- एतेषाम्-अलहाराणामिति /