________________ निराकरणात् / सुसंवरः-शोभनः संवरो यस्मात् तादृशः, यः संवरनामानं रिपुं निराकृतवान् ततः संवरः शोभनः कथं भवेदिति विरोधः, तत्परिहारश्चेत्थम् / संवरः-नानाविधकर्मागमनमार्गनिरोधो यो जैनदर्शने विख्यातः, तस्य वैरिभूतः-हिंसादिलक्षण आश्रवः, निर्जया परिहाराव तस्य, यद्वा संवरवैरी कामदेवः; तस्य नितरां निराकरणाव / सुसंवरः-शोभनः सर्वातिशायी संवरः- विविधकर्मागमनमार्गनिरोधो यस्य तादृशः / स-यच्छब्दोद्दिष्टः / वीरजिन:-चरमतीर्थकरः / व:-युष्माकम् / सम्मदम्-आनन्दाद्वैतम् / तनोतुविस्तारयतु / विरोधालङ्कारः // 7 // अथर्षभजिनादिपञ्चतीर्थङ्करान् प्रथमं स्तुत्वा महोपकारित्वात् सामान्यतः तदन्यानपि जिनेश्वरान् स्तौति, सुधाशनेति सुधाशनाध्यासनजातकीर्तयः, स्फुरद्वषालम्बनचा(तु)रुमूर्तयः / मनःसमीहापरिपूर्तये भृशं, समेऽपि वः सन्तु परे जिनेश्वराः // 8 // अन्वयः-सुधाशनाध्यासनजातकीर्तयः स्फुरद्वषालम्बनचारुमूर्तयः समेऽपि परे जिनेश्वराः : मनःसमीहा-परिपूर्तये भृशं सन्तु / व्याख्या-सुधामश्नन्तीति सुधाशना:- देवाः / तेषां प्रभुचरणाब्जयोरध्यासनं-भवत्योपवेशनम् / तेन जातकोतय:-जाता कीर्तिर्येषां ते तथा, जघन्यतोऽपि कोटिदेवसेव्यत्वात्तस्य / तथा स्फुरन्-विलसन् , यो वृष:-पुण्यं धर्मश्च क्षान्त्यादिदशविधयतिधर्मलक्षणः / तस्य अवलम्बनेन-धारणेन 'श्रेयः पुण्यं वृषो धर्मः सुकृतमितिहैमः / ' चारुमतयः-चार्वी मनोहरा मूर्तिराकृर्तियेषां ते तादृशाः / समेऽपि-सर्वेऽपि / परे-कीर्तितेभ्योऽन्ये / जिनेश्वरा:-जिनेन्द्राः। वा-युष्माकम् / मनःसमीहा-मनसः समीहा स्वाभिलाषा तस्या. / परिपूर्तयेपूरणाय / भृशं-अभीक्ष्णं / सन्तु-भवन्तु ||8| ___अथ तीर्थङ्करान् स्तुत्वा गणधरान् स्तौति-स्वयमितिस्वयं समस्ता अपि लब्धयो वरं, समेत्य रत्नाकरमापगा इव / परस्परस्पर्धितयेव यं श्रिताः, स गौतमः संचिनुतां शुभानि वः॥९॥ अन्वयः-समस्ता अपि लब्धयः यं वरम् , आपगा रत्नाकरमिव परस्परस्पर्धितया इव स्वयं समेत्य भिताः स गौतमः वः शुभानि सचिनुताम् / व्याख्या-समस्ता:-सकला / अपि-न तु काश्चिदेव / लब्धयः यं-गौतमाऽऽख्यं / बियते इति वरस्तं, वरणीयं श्रेष्ठं प्रियश्च / आपगा:--नद्यः / रत्नाकरमिव-रत्नानामाकरः खानिः समुद्रस्तमिव / परस्परसतियेव-अहंपूर्विकयेवेत्यर्थः / स्वयं-स्वत एव / समेत्य श्रिता:-आश्रिताः। यथा नद्यः स्वयमेव