________________ [7] अन्वयः-यः चक्रिभिः भोगिभिश्चन्दनवत्सदैव समन्तत उपास्यते, स भवाधितापव्यपरोपणक्षमः पार्श्वनाथ: वः सुखानि तनुताम् / व्याख्या-य:-पार्श्वनाथः / चक्रिभिः-चक्रमेषामस्तीति चक्रिणः, तैः कुण्डलाकारस्थायिभिः / भोगिमि:-सः अथ च भोगिभिः सांसारिकसौख्यपरम्परामनुभवद्भिर्ने पैः चक्रिभिश्चक्रवर्तिनृपैरिवेति ध्वनिः / चन्दनवत-मलयजवत् / सदैव-सर्वदैव / समन्ततो-विश्वक् / उपास्यते-सेव्यते, यथा भोगिभिस्सश्चन्दनवृक्षः सदैवाश्रीयते, तथाऽयं पार्श्वप्रमुः चक्रवर्तिनृपरिव भोगिभिर्नु पैस्सपैश्वोचितवृत्त्या सदा सेव्यत इत्यर्थः / स-तादृशः / भवस्य- संसारस्य योऽधिताप:-अधिकं तापः, आध्यात्मिकाधिदैविकाधिभौतिकरूपः / तस्य व्यपरोपणे-दूरीकरणे -क्षमः-समर्थः। पार्श्वनाथस्तदाख्यस्तीर्थङ्करः / वः-युष्माकं / सुखानि-कल्याणानि / तनुतां-विस्तारयतु / त्रिविधतापनाशनसमर्थाश्रयणं सुखायैव भवेदिति भावः / उपमाऽलङ्कारः।।६॥ अथ महावीरजिनं स्तौति न वेदेतिन वेद सिद्धार्थभवोऽपि यः स्वयं, चकार सिद्धार्थभवत्वमात्मनः / सुसंवरः संवरवैरिनिर्जयात्, स सम्मदं वीरजिनस्तनोतु वः // 7 // अन्वयः-न वेद यः सिद्धार्थभवोऽपि स्वयमात्मनः सिद्धार्थभवत्वं चकार, ( यश्च ) संवरवैरिनिर्जयात् सुसंवरः स वीरजिनो व: सम्मदं तनोतु / व्याख्या-नवेद-न वेद्मि, “विदक् ज्ञाने" इत्यस्य वर्तमाना 'मि' प्रत्यये मेश्च "तिवां णवः परस्मै" [4-2-117 ] इति णवादेशे 'वेद' इति, विरोधाभासान मे मतिपथं सम्यगवतरतीति कविसमयप्रसिद्धविनोदात्मकवैचित्र्येण स्तुतिकारस्य ग्रन्थकृत इत्थमुक्तिः / किं कथङ्कारं च भवान् न वेत्तीत्याकाङ्क्षायामाह / य:- तच्छब्देन निर्दिश्यमानः, वीरजिन इत्यर्थः / सिद्धार्थभवोऽपि-सिद्धार्थनाम्नो नृपाल्लब्धजन्माऽपि / स्वयम्-आत्मनैव, परनरपेक्ष्येणेत्यर्थः / आत्मनः-स्वस्य / सिद्धार्थभवत्वं-सिद्धार्थनृपलब्धजन्मत्वं / चकार-कृतवान्। यः सिद्धार्थभवस्तत्र सिद्धार्थभवत्वं वर्तत एवेति तत्करणं कथं, सिद्धसाधनदोषादिति विरोधः, अथवा सिद्धार्थभवत्वे सिद्धार्थापेक्षा वर्तत एवेति कथं परनरपेक्ष्येण तत्करणमिति विरोध, ? तत्परिहारश्चेत्थम्सिद्धार्थः-निखिलप्रयोजनातिशायिप्रयोजनवान् भवः-चरमावतारो यस्य स सिद्धार्थभवः, तस्य भावं सिद्धार्थभवत्वं, चकार महति राजकुले लब्धेऽपि जन्मनि न तावता तुतोष, किन्तु राजवैभवं विहाय सम्यग्दर्शनज्ञानचारित्रात्मकरत्नत्रयीमभ्युपगम्य सर्वथा कृतकृत्यतोपयोगितया भवं सफलं कृतवानित्यर्थः / सर्वथा कृतकृत्यो मूत्वा शिवं जगामेति भावः / यदुक्त वाचकावतंसेन भगवतोमास्वातिपादेन-सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति / दुःखनिमित्तमपीदं सुलब्धं भवति तेन जन्मेह // - पुनः संवरवैरिनिर्जयात्-संवरः, संवरनामकोऽसुरः, तदात्मको यो वैरी रिपुः, तस्य निर्जयाव नितरां