________________ शिवाङ्गसङ्गात् कलयन्नपि स्फुटं, कुमारतां यश्च जितान्तराहितः / चकार चित्रं किल तारकोदयं, नमोऽस्तु तस्मै जगदीशनेमये // 5 // अन्वयः-जितान्तराहितो यश्च शिवाङ्गसङ्गात् कुमारतां स्फुटं कलयन्नपि किल चित्रं तारकोदयं चकार, तस्मै जगदीशनेमये नमोऽस्तु / व्याख्या-च-शब्दः पूर्वोपवर्णितार्थसमुच्चायकः / जितान्तराहित:-जिताः-निरम्ताः,आन्तराः-मनोभवा रागादयः, अहिताः-रिपवो येन स तथा, वीतराग इत्यर्थः / “द्विड्विपक्षाऽहिताऽमित्र-दस्युशात्रवशत्रवः" इत्यमरः / यः-तच्छब्देनोद्दिश्यमानो नेमिः / शिवाङ्गसङ्गात-शिवा-पार्वती तस्याः / अथवा शिवस्य-शङ्करस्य, यद्वा शिवा च शिवश्चेति “पुरुषः स्त्रियाः" [3-1-126 / इत्येकशेषे शिवौ तयोः अङ्गसङ्गाव-देहसम्बन्धाद / कुमारतां-कुमारः, कार्तिकेयनामा शङ्करसूनुः, तस्य भावं तथा / स्फुटं-प्रकटमाबालगोपालविदितं यथा स्यात् तथा / कलयन्-धारयन् / अपि-शब्दो विरोधोपदर्शनार्थः,कार्तिकेयस्वरूपोऽपीत्यर्थः, पुत्रे मातृदेहांशतः पितृदेहांशतस्तदुभयतश्चोत्पत्तेः स्वीकाराव शिवाङ्गसङ्गादित्युक्तिः / अपिशब्दसूचितं विरोधमेव दर्शयति / किल-निश्चयेन चित्र-विरोधाघ्रातत्वादाश्चर्यजनकम् / तारकोदयं-तारकस्य-तारकनाम्नो दानवस्य उदयम्-उन्नतिम्, चकार-कृतवान्। कार्तिकेयः स कथं नाम तारकोदयं कुर्यात् , न हि कार्तिकेयेन तारकासुर उदयं नीतोऽपि तु निधनम्, इति स्पष्टं विरोधः / कोशेऽपि 'तारकारिः, तारकान्तकः' इत्यादिशब्दानां कुमारशब्दपर्यायता वर्ण्यते / विरोधपरिहारश्चेत्थम्-शिवाणासङ्गात्-शिवा-शिवादेवीनाम्नी नेमिनाथजननी, या समुद्रविजयनृपजाया, तस्या अङ्गसङ्गाद देहसम्बन्धाव कुमारतां-पुत्रत्वम् युवराजत्वम् , यद्वा कुत्सितः रूपसौन्दर्यादिना तुच्छतां गमितो मारःकामदेवो येन तस्य भावं तथा, अथवा शिवस्य मोक्षस्य अङ्गम् अद्वितीयकारणं "प्राणभूतं चरितस्य परब्रह्मैककारणम् / समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते” इतिवचनात् ब्रह्मचर्य-शीलमित्यर्थः, तस्य सङ्गाद आसनाव जीवनप्रियवाद, कुमारतां-अविवाहिततां, यद्वा कुत्सितः सर्वतोमुखशीलपरिशीलनेन पराजयं नीतः, मार:- कामदेवो येन, तस्य भावं तथा / चित्रं-विविधप्रकारम् , तारकोदयं-तारयन्ति संसारसागराव पारं नयन्तीति तारकाः, शिवपुरप्रयाणे सार्थवाहसन्निभाः साधवः, तेषाम् उपलक्षणत्वादन्येषां श्रावकादीनां भव्यास्मनाम् उदयं परमपदप्रापणतदभिमुखीकरणादिना समुन्नति चकार-कृतवान् / इत्थं विरोधे परिहृतेऽत्र विरोधाभासालङ्कारः / तस्मै-यच्छब्देन निर्दिष्टाय / जगदीशनेमये-जगदीश्वराय द्वाविंशतितमाय नेमिनाम्ने तीर्थङ्कराय / नमोऽस्तु-नमस्कारो भवतु // 5 // ___ अथ पार्श्वनाथं स्तौति-उपास्यते- इति उपास्यते भोगिभिरेव चक्रिभिः, समन्ततश्चन्दनवत् सदैव यः / भवाधितापव्यपरोपणक्षमः, स पार्श्वनाथस्तनुतां सुखानि वः // 6 //