________________ अन्वयः-यत्पदपर्युपासनात् तिरश्चां प्रथमोऽपि मृगः, कलानिधेर्मण्डलमध्यवर्तिताम् समासदत्, म: शान्तिनाथः, व: सन्ततं शिवतातिरस्तु / व्याख्या-यत्पदपर्युपासनात्-यस्य पदयोः चरणयोः पर्युपासनं सेवनं तस्माव। तिरश्वां- तिर्यग्योनीनां, प्रथमोऽपि-प्रधानोऽपि "आद्य प्रधाने प्रथमस्त्रिषु" इत्यमरः,मृगः-हरिणः / कलानिधेः-चन्द्रस्य / “ग्लौमूंगाङ्क: कलानिधि" रित्यमरः / मण्डलमध्यवर्तिताम्-मण्डलस्य-बिम्बस्य, मध्ये वर्त्तत इति मध्यवर्ती तस्य भावस्तत्ता ताम्, मण्डलान्तःस्थायिताम् / समासदत्-प्रापत् / शान्तिजिनस्य हरिणाङ्कत्वात् मृगस्य तत्पदसेवनमध्यवसीयते, तत एव च चन्द्रकलङ्काभेदाऽध्यवसायेन मृगस्य चन्द्रमण्डलमध्यवर्तित्वाध्यवसायः / तादृशः-स शान्तिनाथःषोडशजिनेश्वरः / वः-युष्माकं व्याख्यातृश्रोतृणां / सन्ततं शिवताति:-क्षेमङ्करः / अस्तु-भवतु / "क्षेमकरो रिष्टतातिः शिवतातिः शिवकर" इति हैमः। यत्पदसेवनात्तिर्यग्योनिरप्यनुत्तममतिशयं लभते किम्पुनर्यो मनुष्य इति शान्तिनाथस्यालौकिकमतिशयं पदसेवनेन व्यनक्ति / अत्र च मृगस्य सेवनाऽसम्बन्धेऽपि तत्सम्बन्धोक्तः, ततश्च मृगस्य चन्द्रमण्डलमध्यवर्त्तित्वाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेः, मृगकलङ्कयोरभेदाध्यवसायाचातिशयोक्तिरलङ्कारः / तल्लक्षणं यथा-"सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते” इति // 3 // अथ युग्मेन नेमि स्तौति-पितेतिपिता भवेत्पुत्र इति श्रुतिश्रुतं, यथार्थमर्थ रचयन्निवाजनि / समुद्रजातोऽपि समुद्र एव यः, स्वलक्ष्मशङ्खाश्रयणात् सलक्षणः // 4 // __ अन्वयः-पिता पुत्रो भवेत् इति श्रुतिश्रुतम् अर्थम्, यथार्थम् रचयभिव, यः समुद्रजातोऽपि, स्वलक्ष्मशङ्खाभयणात्, सलक्षणः, समुद्रः, एव, अजनि / व्याख्या-पिता-जनकः / पुत्रो भवेत्-पुत्ररूपेण परिणमेत् / इति-इत्थं / श्रुतिषु-वेदेषु / 'श्रुतिः स्त्री वेद आम्नायत्रयी' इत्यमरः / श्रुतं-प्रसिद्धम् / “आत्मा वै जायते पुत्र" इत्युक्तेरिति भावः / अर्थम्-अभिधेयम् / यथार्थम्-वाच्यमनतिकम्य वर्तत इति यथार्थ सत्यम्। रचयनिव-कुर्वन्निव / यः-नेमिः / समुद्रात-तन्नामनृपात् / जात:-उत्पन्नोऽपि / अपि-विरोधे' / स्वलक्ष्मशङ्खाश्रयणाव-स्वस्य लक्ष्म-चिह्न, शङ्खः, तस्याश्रयणाद्धारणाद्धेतोः। सलक्षणः-लक्षणेन लक्ष्मणा सहितः सलक्षणः सचिह्नः शङ्खलक्ष्मा / 'चिह्न लक्ष्म च लक्षणम्' इत्यमरः / समुद्रः-समुद्राज्जातः समुद्र इति विरोधः, तत्परिहारश्चैवम्-समुद्रः मुद्रया स्वचिहेन सहितः सामुद्रिकोक्तशङ्खादिविशिष्टहस्तपादादिरेखासहित एव-स्याद्वादमुद्रया सहितो वा, तदुपदेशकत्वात् समुद्र एव / अजनि-जज्ञे / एवञ्च समुद्राज्जातः समुद्र एवाजनीति शास्त्रमर्यादास्थापकोऽयमिति भावः अत्र शब्दाऽभेदाद्वाच्ययोरभेदाऽध्यवसायः / किञ्चन पिता एव पुत्रो भवति, किन्तु तत्सधर्मेति अपिना विरोधप्रदर्शनेन द्वयों विरोधातिशयोक्त्योः सङ्करः / “विरुद्धमिव भासेत, विरोधोऽसौ प्रकीर्तित" इति तलक्षणाव // 4 //