________________ [4] जिन स्तुत्वा नमस्कृत्य चादिनाथं स्मरन् व्याख्यातृश्रोतृणां शुभमाशंसते-गणान्वित इतिगणान्वितन्द्रश्चकलां बिभर्ति यः, समाश्रितश्चक्रिवरेण भोगिना / शिवाश्रयो भूरिविभूतिरेष वः, श्रियं स पुष्याद् वृषभध्वजप्रभुः // 2 // अन्वयः-गणान्वितः, भोगिना, चक्रिवरेण, समाश्रित:. शिवाश्रयः, भूरिविभूतिः, यः, चन्द्रकलाम् ; बिभर्ति, एषः, स:, वृषभध्वजप्रभुः, व:, श्रियं, पुष्यात् / व्याख्या गणान्वितः-गणैः साधुगणैः नामैकदेशग्रहणे नाम ग्रहणमिति न्यायात् गणधरैश्च, पक्षान्तरे गणैः प्रमथैः अन्वितो युक्त: "प्रमथाः पार्षदा गणाः" इति हैमः / भोगिना-सुखादिभोगवता; शिवपक्षे फणिना च, “भोगी भुजङ्गभुजगावुरगो" इत्यादिहैमः / चक्रिवरेण-चक्रं चक्ररत्नमस्ति येषां ते चक्रिणः, तेषु वरेण चक्रवर्तिवाद्यत्वाच्छ्रेष्ठेन भरतेन; शिवपक्षे चक्रं कुलालोपकरणं कुण्डलं च तद्वत्तदाकारविशेषोऽपि लक्षणया चक्रं, तदस्ति येषां ते चक्रिणः तेषु वरेणेत्येवं विग्रहण सर्पराजेन च, यद्वा 'चक्री व्यालः सरीसृपः' इत्यमरोक्तश्चक्रिणसर्पाः तेषु वरेण सर्पराजेन, समाश्रित:- संसेवितः / शिवाश्रय:- शिवस्य मोक्षस्य कल्याणस्य वा आश्रयः, शिवं निःश्रेयसमाश्रीयते यस्माद् वा सः शिवाश्रयः, मुक्तो मोक्षदाता सकलकल्याणालंकृतो वा "शिवं निःश्रेयस” मिति हैमः। शिवपक्षे "शिवा भवानी रुद्राणी" इत्यमरोक्तः शिवायाः पार्वत्या आश्रयः / अर्धनारीश्वरत्वेनाधारो-यः स शिवाश्रयः / भूरिविभूतिः-भूरि बहुतरा, सर्वेति यावत्, विभूतिः-ऐश्वर्य चतुस्त्रिंशदतिशयाष्टप्रातिहायश्वर्यमस्त्यस्येति यावत् / शिवपक्षे विशिष्टा भूतिर्भस्म च यस्य स तादृशः / 'विभूतिभूतिरैश्वर्यम्,' इति "भूतिभस्मनि संपदि" इति चामरः / यः चन्द्रकलां विभर्ति-यश्चन्द्रस्य कलामिव कलाम् , ज्ञानाद्यनन्तकलां पक्षान्तरे कलां षोडशांशात्मिकां कान्तिं वा बिभर्तीति / एषः सः-पूर्वोक्तविशेषणविशिष्टः / वृषभध्वजः-वृषभः ध्वजो चिह्नं यस्य स तादृश आदिनाथो नाभेयः,पक्षान्तरे वृषभध्वजः शिवः, अत एव वृषलान्छनः शिवः इति कोशे उक्तं वृषवृषभयोरेकार्थत्वात् "ऋषभो वृषभो वृषः" इति हैमोक्तः, तदुपमः / प्रभुः-जगत्त्रयाधिपतिः / व:-युष्माकं व्याख्यातृश्रोतृणाम् / श्रियं-शोभां लक्ष्मीञ्च / पुष्याद्-अभिसंवर्धयेत् / अत्र च "दुर्गाललितविग्रहः” इत्यादिवच्छब्दशक्तिमूलोपमाध्वनिः, न च श्लेषः / अर्थद्वयस्य वाच्यत्वे तात्पर्याभावात् / तदुक्तं तल्लक्षणम्-“श्लिष्टैः पदैरनेकार्थाऽभिधाने श्लेष इष्यत" इति / अत्र तु नानेकस्यार्थस्याभिधानम्, अपि त्वेकस्याभिधानम् / अपरोऽर्थस्तु व्यङ्गय एव / वृषभदेवस्यैव प्रथमतीर्थंकरस्य पर्यवसाने बोधनीयत्वात् / तथा च शिवार्थप्रतिपादनसमर्थशब्दावलीयोजनप्रयासः कवेः वैफल्यं मा स्म गच्छदिति शिव इव वृषभदेव इत्युपमायां पर्यवसानं भवतीति उपमाध्वनिः स्पष्टः // 2 // अथ शान्तिजिनं स्तौति-समेति / समासदद् यत्पदपर्युपासनात्, कलानिधेर्मण्डलमध्यवर्तिताम् / मृगस्तिरश्चां प्रथमोऽपि सन्तत, स शान्तिनाथः शिवतातिरस्तु वः // 3 //