________________ नमस्कारात्मकमेव मङ्गलमास्तिकानामुचितमिति विभाव्य तत्कुर्वन् शिष्यशिक्षायै व्याख्यातृश्रोतृणामपि विनाऽऽयासम्मङ्गलाय चादौ तन्निबध्नाति-प्रभाकरो य इति / य:-जिनः, तस्मै इत्यनेन जिनस्य परामर्शाव, यत्तदोर्नित्यसम्बन्धादिति भावः / परमः-लोके प्रभाकरत्वेन प्रसिद्धादुत्कृष्टतमः, प्रभां करोतीति प्रभाकरः-सूर्यः / “भास्कराऽहस्करबध्नप्रभाकरविभाकराः” इत्यमरः / अथ च प्रकाशकारकः, सर्वविषयकज्ञानप्रकाशशालित्वेन तत्कारकः, सर्वज्ञ इति यावत् / प्रभाया आकर इति व्युत्पत्त्या सहस्रकलायाः, पक्षान्तरेऽनन्तज्ञानप्रभाया आधारश्च, / य एव-परम उत्कृष्टतमः, कलानां निधिः कलानिधिश्चन्द्रः / 'षोडशोंऽशः कला" इति हैमः / “मृगाङ्कः कलानिधिः” इत्यमरः / अथ च बाह्याभ्यन्तरसर्वकलाकुशलः, सर्वज्ञ इति यावत् / यस्मादपरो-ऽन्यः, पुनातीति पावकोऽग्निः, अथ च पवित्रयिता न / “अपावनानि सर्वाणि, वह्रिसंसर्गतः क्वचित् / पावनानि भवन्त्येव तस्मात् स पावकः स्मृतः // 1 // " इत्युक्तेः शान्तिजिन एव परमार्थवृत्त्याऽग्निः / यतस्तत्संसर्गत एव सर्वे भव्यजीवाः पवित्रीभवन्तीति भावः / यद्भाभि:-यस्य भाः यद्भास्ताभिर्यदीयप्रभाभिः / “स्युः प्रभारुग्रुचिस्त्विड्भा भाश्छविद्युतिदीप्तयः” इत्यमरः / इदं-चरश्चाचरश्च चराचरे, अनयोः समाहारे चराचरं-स्थावरजङ्गमात्मकं जगत् / 'विभाति-प्रकाशते / तस्मै-पूर्वोक्तसकलगुणगणमहिताय, परमात्मने-सर्वोत्कृष्टात्मतत्त्वशालिने। जिनाय-जयति रागादीनिति जिनो वीतरागस्तस्मै, केवलिजिनाय / नमः-तम्प्रति प्रणतोऽस्मीति / अयं भावः-जगति त्रीणि तेजांसि प्रकाशकत्वेन प्रसिद्धानि, रविश्चन्द्रो वह्निश्च / तत्र रविस्तावद्दिवैव बाह्यमेव तमो नाशयति; जिनस्तु रात्रिन्दिवं बाझमभ्यन्तरश्च भव्याङ्गिनामज्ञानतमो नाशयतीति स एव परमः प्रभाकरः / एवञ्च तस्योपमानत्वेन प्रसिद्धाद्रवेरप्युत्कृष्टत्वं सूचितम् / चन्द्रश्च षोड़शकलानामेव निधिः, जिनस्तु बाह्याभ्यन्तरसकलकलानाम् / किञ्च चन्द्रीयाः कलाः शुक्लपक्षकृष्णपक्षयो... द्धिक्षयशालिन्यः, एतदीयास्तु सर्वदैव सम्पूर्णा इत्येष एव परमः कलानिधिः / एवञ्च कलानिधित्वेन प्रसिद्धादुपमानभूताश्चन्द्रादप्यस्याधिक्यम् / एवं पावकः स्वल्पदेशप्रकाशको दादिदाहक एव, मलदूरीकरणेन सुवर्णादेश्च पावकः; अयन्तु सर्वजगत्प्रकाशको भव्याङ्गिनिखिलकर्मेन्धनदाहकः, अतिमलीमसभव्यात्मचित्तपवित्रीकारकश्चेत्येवमनन्यसाधारणधर्मेति पावको वस्तुतोऽयमेवेति प्रसिद्धात पावकादुपमानादाऽऽधिक्यमस्य / किश्चास्यैव प्रभाभिः सकलचराचरं विभातीति सर्वतेजसामादिभूतोऽयमेवेति युक्तमेवास्य परमत्वम् / तथा चात्रोपमानभूताद्रविचन्द्रपावकप्रभृतेराधिक्यस्य वर्णनात्, तत्र च चराचरप्रकाशकत्वरूपस्य वाक्यार्थस्य हेतुत्वावगमात् काव्यलिङ्गानुप्राणितो व्यतिरेकालङ्कारः स्पष्टः / तत्र प्रभाकरत्वांशे कलानिधित्वांशे चाभिव्यज्यमानः, पावकत्वांशे तु वाच्यो व्यतिरेकः / तयोर्लक्षणन्तु-"आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा व्यतिरेक इति / हेतोर्वाक्यपदार्थत्वे, काव्यलिङ्ग निगद्यते” इति च साहित्यदर्पणे / सर्वजगत्प्रकाशकत्वेन रविचन्द्रवहिभ्योऽप्युत्कृष्टतमाय जिनाय नमः इति निर्गलितोऽर्थः / एतेन सर्वतेजोभिरुत्कृष्टवर्णनेन स एव समाश्रयणीयत्वेन सर्वकार्यादौ नमस्करणीय इति कविना तन्नमस्कारो प्रन्थसमाप्तिसाधनतया विज्ञायाचरित इति सूचितम् / अत्र च सर्गे वंशस्थवृत्तम्, तहक्षणन जितौ तु वंशस्थमुदीरितं जरौ” इति // 1 //