________________ [ 271 ] तदुदितमिति सर्व बिन्दुषेणेन्दुषेणी, श्रवणपथमवाप्य प्रीतिपूर्व विबुद्धौ / प्रणिजगदतुरेवं प्राप्तहर्षप्रकर्षों, निरुपचरितमोवां बोधयेत्त्वां विना कः? // 230 // व्याख्या इति-पूर्वोत्तक्रमेण / तदितं तेन विद्याधरेण उदितं कथितं / सर्व-सकलवृत्तान्तं / प्रीतिपूर्व-प्रेम्णा / श्रवणपथं-कर्णयोः मार्गम् / अवाप्य-प्राप्य, निशम्येत्यर्थः / विबुद्धौ-जातबोधौ / विन्दुषेणेन्दुषेणी, प्राप्तहर्षप्रकर्षों-प्राप्तः हर्षस्य प्रकर्ष आधिक्यं याभ्यां तौ तादृशौ सन्तौ / एवं-वक्ष्यमाणप्रकारेण / प्रणिनगदतुः-ऊचतुः, किमित्याह / त्वां-भवन्तं / विना, क:-अन्यः / आवां, निरुपचरितंनिष्कपटं / बोधयेत-शिक्षयेव, न कोऽपि इत्यर्थः / त्वं मम महानुपकारक इति भावः / (मालिनीवृत्तम्) / / 230 // ___ अथ सम्प्रति तयोः कृतज्ञत्वमाह-वचनरचनेति वचनरचना स्नेहाका तेऽविनश्वरदीपिका, हृदयभवनं कर्णद्वारा न नौ प्रविशेद्यदि / प्रसृमरमिदं पापध्वान्तं निरस्य तदा कथं, शिवपथमहो! जानीयाव प्रयत्नशतैरपि // 23 // व्याख्या-स्नेहाक्ता-स्नेहेन प्रीत्या अथ च तैलेन अक्ता समन्विता / अविनधगदीपिका-अविनवरा अनपायिनी दीपिका दीपतुल्या / ते तव / वचनरचना-वाक्क्रमः / कर्णद्वारा-श्रुतिरूपेण द्वारेण / नौ-आवयोः / हृदयभवनं-हृदयमेव भवनं गृहं / यदि, न, प्रविशे-गच्छेत् / तदा, प्रसृमरं-प्रसरणशीलम् / इदं-वर्तमानं / पापध्वान्तम्-पापमेव ध्वान्तं तमः / निरस्य-विनाश्य / प्रयत्नशतैरपि, कथंकेन प्रकारेण / शिवपथं-कल्याणमार्ग / जानीयाव-बुध्येवहि / अहो-इति हर्षे आश्चर्य वा, यथा दीपं विना अन्धकारनाशः प्रकारान्तरेण, तवोपदेशं विना मम अज्ञाननाशः नैव भवेदित्यर्थः / (श्लेषानुपाणितरूपकालङ्कारः / हरिणीप्लुताच्छन्दः) / / 231 // अथ कथामुपसंहरति-विद्याभूदिति--