________________ [ 272 ] विद्याभृन्मणिकुण्डली सविनयं ताभ्यां विसृष्टस्ततः, शस्त्राशस्त्रिकथामपास्य सहसा कल्याणमालावृतो। प्रव्रज्यां प्रतिपद्य तौ नृपसुतैः सार्धं सहश्चतुः संख्यैः कर्मबलं विभिद्य तपसा कैवल्यमासेदतुः // 232 // व्याख्या--ताभ्यां-बिन्दुषेणेन्दुषेणाभ्यां / मणिकुण्डली-तन्नामा / विद्याभृत-विद्याधरः / विसृष्टः. गमनायानुमोदितः / ततः तदनन्तरम् / शस्त्राशस्त्रिकथाम्-युद्धवार्ताम् / अपास्य-त्यक्त्वा / कल्याणमालावृतौ-कल्याणस्य शुभस्य मालाभिरावलभिः वृतौ समन्वितौ / तौ-बिन्दुषेणेन्दुषेणौ। चतुःसंख्यैः सहस्रः-चतुःसहस्रैः / नृपसुतैः-राजपुत्रैः / सार्द्ध-सह / सहसा-सपद्येव / प्रव्रज्यां-दीक्षां / प्रतिपद्यस्वीकृत्य, दीक्षां गृहीत्वेत्यर्थः / तपसा-क्लिष्टकर्मक्षपणेऽमोघशक्तिकेन, द्वादशविधेन तपसा / कर्मबलंनिखिलघातिकर्मणां बलं सामर्थ्य, सैन्यं वा / विभिद्य-समूलं समुच्छेद्य / कैवल्यं-केवलज्ञानं तद्वारा मोक्षं च / आसेदतुः-प्रापतुः अविकलसामग्रथा कार्योत्पत्तेरवश्यम्भावादिति भावः / शार्दूलविक्रीडितंवृत्तम् / / 232 // आसीत् श्रीगुरुगच्छमौलिमुकुट-श्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिसुगुरुचारित्रभाजां गुरुः / तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गश्चतुर्थोऽगमत् // 233 // आसीदित्यादिश्लोकस्य ब्याख्या पूर्ववदेवेति // 233 / / // इतिश्रीशान्तिनाथचरिते चतुर्थसर्गव्याख्या समाप्ता // व्याख्यानान्तरशून्यतापरिचिते, मूलेऽतिगूढा के, . सर्गे दर्शनसूरिणा विरचिता, व्याख्या तुरीये तु या। / सा पूर्णाऽपि कथं भविष्यति तथा नो पूर्णमोदप्रदा, विज्ञानां यदि तर्हि कामितफलं, कर्तुः स्वयं दास्यति / / 4 / / इति 'प्रबोधिनी' व्याख्यासमन्वितस्थ श्रीशान्तिनाथमहाकाव्यस्य चतुस्सर्गात्मक प्रथमो-विभागः