________________ [ 270 ] पीत्वा तीर्थकराननादिति वचापीयूषमत्रागर्म, प्राच्यप्रेमवशानिवारयितुमन्यायं युवानौ युवाम् / माता पूर्वभवेऽभवं तु भवतोराङ्गनेयं स्वसा, तद्भद्रौ! सुकुलीनयोः पशुजनाचारोन वायुज्यते // 228 // * व्याख्या --तीर्थ कराननात्-तीर्थकरस्य जिनेशस्य आननात् मुखाव, सकाशात् / इति–पूर्वोक्त. प्रकारम् / वचःपीयूषं-वचः एव पीयूषम् अमृतं / पोवा-नोपीय, सादरं श्रुत्वेत्यर्थः / प्राच्यप्रेमवशावप्राच्यस्य पूर्वभवोद्भवस्य प्रेम्णः वशात्पारतन्त्र्याव / अन्यायम्-अनौचित्यं / निवारयितुम्-उपरोद्धम् / अत्र-भवतोः समीपे / आगमम् , युवानौ !-तरुणौ ! पूर्वभवे-पूर्वजन्मनि / भवतो:-युवां / माताजननी / अभवम्-अहमिति शेषः / इयं-वर्तमाना | तु, वाराङ्गना-स्वयंवरार्थ समागतया बजाख्यनृपस्य श्रीकान्ताभिधपुत्र्या सहाऽऽगता / भवतोः, स्वसा-भगिनी, अभूदिति शेषः / भद्रौ !-सौम्यौ ! तत्तस्माद्धेतोः, पूर्वभवीयस्वभगिनीसम्बन्धान कारणात् / सकुलीनयो:-उत्तमकुलोत्पन्नयोः / वां-युवयोः / पशुजनाचार:-पशुवर्गव्यवहारः, भातृभगिनीविवाहः पशुष्वेवेति भावः / न-नैव / युज्यते-तस्मात्त दामहः भवद्भ्यां त्याज्य एव, अन्यथा पशुत्वानुषङ्गात् / (शार्दूलविक्रीडितं वृत्तम्) / / 228 / / संसारिणो गतिवैचित्र्यमाह-देव इतिदेवः कदाचन कदाचन नारकोपि, राजा कदाचन कदाचन रङ्क एषः / कीटः कदाचन कदाचन मानुषोऽपि, लक्ष्यो भवी न नटवत्परिवर्तमानः // 229 / / व्याख्या--कदाचन-कदाचिद् / देवः-भवतीति शेषः, तस्य च सर्वत्र सम्बन्धः / कदाचन, नारकोऽपि, कदाचन राजा, कदाचन रङ्कः-निष्किञ्चनः / कदाचन, कोट:-क्षुद्रजन्तुः / कदाचन, मानुषःमनुष्योऽपि, इत्थं / नटवत-नट इव / परिवर्तमानः वेषं परिवर्तयन् / एष भवी-जन्तुः / न-नैव / लक्ष्य:परिचयः नैकरूप इत्यर्थः / कर्मणो गतिरचिन्तनीया इति भावः / तस्माद्भवतो नया सह परिचयो युक्त इति भावः / (वसन्ततिलकावृत्तम्) / / 229 // अथ तयोः विबोधमाह-तदुदितमितीति