________________ [ 269 ] व्याख्या-रत्नध्वजस्य-तदाख्यनृपस्य / गुणौषैः-गुणावलिभिः / महिता-पूजिता / प्रथमाकनकश्रीनाम्नी / महिषो-राज्ञी पत्नी। विततं-विपुलं / धर्म, वितत्य-कृत्वा / विपन्ना-मृता सती / भुजाबलविनिर्जितकुण्डलीशः - भुजयोः बाह्वोः यत् आसमन्ताद सामर्थ्य तेन विनिर्जितः पराभूतः 'दृक्कर्ण कुण्डलिबिलेशयेति हैमोक्तेः कुण्डलिनस्सर्पस्येशोऽधिपः सर्पराजः कुण्डलीशः सर्पराजः येन स तादृशः / मणिकुण्डली-तन्नामा / विद्याभृता-विद्याधराणाम् / अधिपतिः-इन्द्रः / त्वं, नातः- उत्पन्नः असीति शेषः / वसन्ततिलकावृत्तम् / तल्लक्षणां यथा-"उक्ता वसन्ततिलका तभजा जगौ गः” इति // 225 / / ते चक्रिजे कनकपद्मलते भ्रमित्वा, गर्भाशयप्रभवदुःखचितं भव छ / दानाधिधर्ममुरुशर्मकरं निषेव्य, श्रीषेणभूपरिवृढस्य सुतावभूताम् // 226 // व्याख्या-चक्रिजे-रलध्वजसुते / ते-ढे / कनकपद्मलते-कनकलतापद्मलते। गर्भाशयप्रभवदुःखचितं-गर्भाशये उदरे प्रभवेन जातेन दुःखेन चितं समन्वितं / भवं-संसारं / भ्रमित्वा-परिभ्रम्य / उरुशर्मकरम्-उरु अतिशयेन प्रचुरं वा यच्छम सुखं तस्य करं कारकं / दानादिधर्म-दानप्रभृतिधर्मकृत्यं / निषेव्य-कृत्वा च, श्रीषेणभूपरिवृढस्य-श्रीषेण एव भूपरिवृढः पृथ्वीपतिः तस्य / सुतौ-पुत्रौ,बिन्दुषेणेन्दुषेणौ / अभूताम्-अजनिषाताम् / वसन्ततिलकावृत्तं, तल्लक्षणं तु पूर्वमेवोक्तम् / / 226 // आयुः पल्योपमपरिमितं पूरयित्वाधिकल्पात् , पद्मा च्युत्वा सपदि गणिकानन्तमत्याह्वयाऽभूत् / श्रीषेणमापरिवृढसुतौ . साम्प्रतं तन्निमित्तं , युध्येते तौ स्मरपरवशौ बिन्दुषेणेन्दुषेणौ // 227 / ! व्याख्या-पन्योपमपरिमितम् , आयुः, पूरयित्वा, अधिकल्पात्-सौधर्मकल्पात् / सपदि-सद्य एव / च्युत्वा-च्यवनं कृत्वा / पद्मा-तन्नामराजपुत्री / आह्वया-नाम्ना / अनन्तमती गणिका अभृत् , तनिमित्तं-तदर्थ / साम्प्रतम्-अधुना / स्मरपरवशौ-स्मरस्य कामस्य परवशौ अधीनौ / श्रीषेणमापरिवृहसतौ-श्रीषेणस्य तन्नाम्नः क्षमापरिवृढस्य महीपतेः सुतौ पुत्रौ तौ / बिन्दुषेणेन्दुषेणौ, युध्येते-युद्धं कुर्वतः / 227 // (मन्दाक्रान्तावृत्तम् ) अथ विद्याधरस्यागमनहेतुमाह-पीत्वेति--