________________ [ 268 ] सेवान्यदोद्दिश्य शरीरचिन्ता, पथि प्रयान्ती योतेनी पराद्धर्या / द्वो राजपुत्रौ युधमादधानौ, वाराङ्गनानगलतानिमित्तम् // 222 // उद्गूर्णशस्त्रौ सरसौ समानौ, तत्सङ्गसम्प्राप्तिनिदानमेषा / समीक्ष्य विश्वाप्रतिरूपरूपौ, व्यामोहमूढाऽरचयन्निदानम् // 223 // व्याख्या-अन्यदा, सा-पद्मानाम्नी / एव,परार्ध्या-साध्वीवर्गश्रेष्ठा ‘परार्ध्याग्रप्रागहर प्राग्रयाप्रथेत्यमरः'। यतिनी-व्रतिनी / शरीरचिन्ता-बाह्यादिक्रियाम् / उद्दिश्य-अभिलक्ष्य / पथि-मार्गे। प्रयान्तीगच्छन्ती सती / वाराङ्गनानगलतानिमित्तं-वाराङ्गना वेश्या या अनङ्गलता तन्नाम्नी, तन्निमित्तं तत्प्राप्त्यै / युधम्-युद्धम् आइधानौ कुर्वाणौ, अत एव उद्गुणं परस्मिन् प्रहारायोवक्षिप्तं शस्त्रं याभ्यां तौ उद्गुणशस्त्री सरसौ-सुन्दरौ / समानौ-तुल्यौ, विश्वे अप्रतिरूपमतुल्यं रूपं सौन्दर्य ययोस्तौ / विश्वाप्रतिरूपरूपौ, द्वौ, राजपुत्री, समीक्ष्य-अवलोक्य / व्यामोहमूढा-व्यामोहेन अज्ञानेन मूढा कर्त्तव्याकर्त्तव्यविवेकशून्या / एषापद्माख्या यतिनी / तत्संगसम्प्राप्तिनिदानम्-राजपुत्रसंगस्य सम्प्राप्तिः तस्याः निदानं हेतुः तत्संगमार्थमित्यर्थः / निदानं / अरचयत्-कृतवती / / 222-223 // प्रान्तेऽनालोचितस्य निदानस्य फलमाह-प्रान्त इति - प्रान्तेऽथ नालोच्य दुरीहितं त-दलव्यपायेऽनशनेन मृत्वा / सौधर्मकल्पेऽजनि देवताऽसौ, कल्पद्रुसम्पूर्यमनोविकल्पा // 224 // व्याख्या-अथ, दुरीहितं-दुश्चेष्टितं, निदानकर्म / नालोच्य-सद्गुरुपार्श्वे प्रायश्चित्तम् अकृत्वा / प्रान्ते-मरणसमये / अनशनेन-अनशनं कृत्वा / बलव्यपाये-बलस्य प्राणस्य व्यपाये क्षये सति आयुःक्षये सति / मृत्वा-कालधर्म प्राप्य / असौ-पद्माख्या यतिनी / सौधर्मकल्पे-तदाख्ये विमाने कल्पद्रुभिः कल्पद्रुमैः सम्पूर्यः पूरणीयः मनोविकल्पः अभिलाषः यस्याः सा कल्पद्रुसम्पूर्यमनोविकल्पा देवता, अजनिजाता // 224 // . रत्नध्वजस्य महिषी महिता गुणोघे-धर्म वितत्य विततं प्रथमा विपन्ना / विद्याभृतामधिपतिर्मणिकुण्डलीत्वं,जातो भुजाबलविनिर्जितकुण्डलीशः।।२२५।।