________________ [262 ] स जातजातिस्मृतिरात्मपत्न्या, समं समुत्थाय गुरून विनम्य / आह स्म यावत्समुपैमि गत्वा, तावद्भवद्भिः स्थितिरत्र कार्या // 203 // व्याख्या-जातजातिस्मृतिः-जातोत्पन्ना जातिस्मृतिः पूर्वजन्मस्मृतिः यस्य सा तादृशः / सः-मङ्गलकुम्भः / आत्मपल्या-स्वभार्यया, त्रैलोकसुन्दर्या / समं-सह / समुत्थाय, गुरुन्-तान् मुनीन् / विनम्यप्रणम्य / बाह-ब्रूते / स्म-किमित्याह / यावद्, गत्वा, समुपैमि-अहं पुनरागच्छामि / भवद्भिः, तावद्अत्रोद्याने / स्थितिः, कार्या-कृपया स्थातव्यम् // 23 // नैव प्रमादं नृपते ! विदध्या, इतीरितेऽसौ गुरुभिः ससार / निवेश्य राज्ये तनयं विनीतं, वैराग्यरङ्गात्तरसाऽससार // 204 // व्याख्या-नृपते !-राजन् ! प्रमादम्-अनवधानं / नैव, विदध्या:-कुरु / इति-इत्थं / गुरुमि:मुनिभिः / ईरिते-कथिते / असौ-मङ्गलकुम्भः / ससार-गृहं जगाम, तत्र गत्वा / विनीतं-शिक्षितं विनययुक्तं च / तनयं-पुत्रं / राज्ये, निवेश्य-स्थापयित्वा, स्वयम् / वैराग्यरङ्गात्-वैराग्ये रङ्ग अनुरक्तिः तस्मात् , प्राप्येत्यर्थः / तरसा-शीघ्रम् / आससार-आजगाम // 24 // पार्श्वे गुरूणां गरिमाचलानां, दक्षः स दीक्षां विधिवत्प्रपेदे / त्रैलोक्यसुन्दर्यपि कुर्वतीव, पतिव्रताभावमियं यथार्थम् // 205 // व्याख्या दक्षः-कुशलः, मङ्गलकुम्भः / गरिमाचलानां-गरिम्णा गौरवेण अचलानां पर्वततुल्यानां / गुरूणां, पार्थे-समीपे / विधिवद्-यथाविधि / दीक्षां, प्रपेदे-स्वीकृतवान् / इयं-तत्पत्नी / त्रैलोक्यसुन्दरी, अपि, पतिव्रताभावं-पतिव्रतायाः भावमभिप्रायम् पत्युः व्रतमेव व्रतं यस्याः सा पतिव्रता इत्येवं रूपं भावम् / यथार्थम्-अन्वर्थ / कुर्वती इव-दीक्षां प्रपेदे इत्यनुषज्यते, द्वावपि दीक्षां जयसिंहगुरोः पार्वे प्रपेदाते इत्यर्थः / / 205 // क्षमां स्थिरामाश्रयतो नृपस्य, तथास्य राज्येन बभूव शर्म / चारित्रलक्ष्मी प्रतिपद्य हृद्यां, कषायकालुष्यजयाद्यथैव // 206 //