________________ [ 261 ] तद्वचः, विनिशम्य-श्रुत्वा / भद्रा-शान्तस्वभावा / अपि, मद्रा-तन्नामसखी / बाढम्-अत्यन्तं / सन्तापंदुःखम् / अधत्त-प्राप / स्वपतिविषये सतोऽपि दोषस्य हसित्वा कथनं सन्तापाय जायत इति भावः // 199 // तया गिरा तां व्यथितां विभाव्य, सौम्येन्दुपत्नी क्षमयाम्बभूव / खेदं वृथा त्वं हृदि मा कृथा यत्, तनोति जन्तोनिखिलं स्वकर्म // 20 // व्याख्या-तया- हास्योदितया। गिग-वाण्या / तां-भद्रां / व्यथितां-संतप्तां / विभाव्यज्ञात्वा / सौम्येन्दुपत्नी-सोमचन्द्रस्य पत्नी भार्या, श्रीदेवी / क्षमयाम्बभव-क्षमायाचनमकरोत् / तथाहि त्वं-मम सखी, भद्रा / हृदि, खेदं-मद्वचनेन सन्तापं / वृथा- मुधा / मा कृथाः-कुरु / यत्-यतः अविचार्योक्तं मयेति भावः, विचार्योक्तौ त्वेवं ब्रूयाम्, कमित्याह / जन्तोः-शरीरिणः / निखिलं-शुभाशुभादिकं / स्वकर्म तनोति-पुरोपार्जितपुण्यपापादि कर्त्त करोति, न तु तत्र कस्याप्यन्यस्य कर्तुत्वमिति भावः // 20 // अथ स्वमायुः परिपूर्य मृत्वा, (जा) यातौ युवां तो क्रमतोऽनुरूपौ। अवक्रयेणोपयमस्तवार्य, परार्थदानेन बभूव भूप ! // 201 // ___ व्याख्या-अथ-अनन्तरं / स्व-निजम् / आयुः, परिपूर्य-समाप्य / मृत्वा, क्रमत:-अन्तरा सौधर्मे कल्पे देवभवं कृत्वा / तौ-श्रीदेवीसोमचन्द्रौ / अनुरूपौ-दम्पतीरूपौ। युवाम्-त्रैलोक्यसुन्दरीमङ्गलकुम्भौ / (जा) याती-उत्पन्नौ स्थ इतिशेषः / भप !-राजन् ! परार्थदानेन-परस्यान्यस्य स्वमित्रस्य अर्थस्य धनस्य दानेन हेतुना, मित्रद्रव्येण भवतोपार्जितेन पुण्येन / अयं, तव, उपयमः-विवाहः, 'विवाहोपयमौ समौ' इत्यमरः / अवक्रयेण-मूल्येन। वभव-'मूल्यं घस्नोऽप्यवक्रयः' इत्यमरः / / 201 / / सख्याश्च दोषप्रतिपादनेन, जज्ञे कलङ्को भवतः प्रियायाः। ईदृग्वचस्तस्य निशम्य सूरे-स्तयोरभूत् प्राग्भवसंस्मृतिश्च // 202 // व्याख्या - सख्याः, दोषप्रतिपादनेन-हास्योक्त्या दूषणकथनेन हेतुना / भवतः प्रियायाः-त्रिलोकसुन्दर्याः / कलङ्कः-एतद्गात्रसंपर्कात्सचिवपुत्रः कुष्ठी जात इत्येवंरूपः अपवादः / जज्ञे-बभूव / तस्य, सूरेःजयसिंहसूरेः / ईदृक्-पूर्वोक्तप्रकारं / वचः, निशम्य,तयो:-त्रैलोकसुन्दरीमङ्गलकुम्भयोः / प्राग्भवसंस्मृतिःप्राग्भवस्य पूर्वजन्मनः संस्मृतिः संस्मरणं / च, अभत् // 202 //