________________ [ 260 ] पत्युः / वृत्तानुगुणेन-वृत्तस्य व्यवहारस्य अनुगुणम् अनुकूलं तेन, पतिवृत्तमनुसृत्य / व्यवहारं-स्वकीयप्रवृत्तिं / प्रवर्तयन्ति-कुर्वन्ति, पत्यनुसारिणी हि प्रियेत्यर्थः / पतिगुणेनैव प्रियाया गुणाधानमिति भावः / / 196 / / अथ तस्य सर्वस्वदानमाह-नयार्जितमितिनयार्जितं स्वं कुलपुत्रकेण, स्वं पात्रसात्तेन कृतं समग्रम् / अखण्डितं सौख्यमपेक्षमाणाः, किं किं न कुर्वन्ति महानुभावाः // 197 // व्याख्या-तेन-अजस्रदाने जातश्रद्धेन / कुलपत्रकेण-सोमचन्द्रापरनामकेन / नयाजितं-नयेन नीत्या उपार्जितं संचितं / स्वं-निजं / समग्रं-संपूर्ण / स्व-धनम् 'स्वो ज्ञातावात्मनि धने' इत्यमरः / पात्रसात्कृतं-योग्यपात्राय दत्तमित्यर्थः / युक्तं चैतदित्याह / महानुभावाः-महान् लोकोत्तरः अनुभावः प्रभावः आशयो वा येषां तादृशाः, दानादिधमैकचित्ताः / अखण्डितं-शाश्वतिकं / सौख्यम, अपेक्षमाणाः-ईहमानाः सन्तः / किं किं न कुर्वन्ति ?–सर्वस्वदानादिकं सर्वमेव कुर्वन्ति इत्यर्थः // 197 / / त्वग्दोषदुष्टं समवेक्ष्य भद्रा, सखीपतिं सा कुलपुत्रपत्नी। हास्याजगौ तां प्रति विप्रिय ते, किमङ्गमाहात्म्यमिदं सखि स्यात् // 19 // व्याख्या-कुलपुत्रपत्नी-कुलपुत्रस्य पत्नी भार्या / सा-श्रीदेवी / भद्रासखीपति-भद्रानाम्न्याः सख्याः स्वसहचर्याः पतिम् / त्वग्दोषदुष्टं-त्वग्दोषेण श्वित्रेण दुष्टं विवर्ण / समवेक्ष्य-अवलोक्य / हास्यात्परिहासात् / तां-सखीं / प्रति विप्रियं-हास्येनानिष्टवचनं / जगौ-उवाच, किमित्याह / सखि ! तेतव / इदम् अङ्गमाहात्म्य-शरीरप्रभावः / किं स्यात्-किंरूपं भवेत् ? // 198 // ननु किं मदङ्गमाहात्म्यं त्वया दृष्टं यदेवं पृच्छसीत्यत आह - येनेति - येनायमीहक् समभूत् प्रियस्ते, समुल्लसत्सूरणकन्दरूपः / तस्या वचस्तद्विनिशम्य भद्रा, भद्रापि सन्तापमधत्त बाढम् // 199 // व्याख्या-येन-तवाङ्गमाहात्म्येन / अयं-दृश्यमानः / ते-तव / प्रियः-पतिः / ईक, समुल्ल. सत्सूरणकन्दरूपः-समुल्लसत् शोभमानं यत्सूरणस्य कन्दं तद्रूपः तद्वर्णः / समभत्-जातः, त्वत्संगदोषेण तव पतिः कुष्ठी जज्ञे, तवाङ्गमाहात्म्येनेवास्यैतादृक्सुवर्णतेति कुरूपस्तव पतिरिति काकुः / तस्याः-श्रीदेव्याः /