________________ [ 259 ] व्याख्या - तत्र-प्रतिष्ठितपुरे / ऋजुरूपः- सरलस्वभावः / कुलपुत्रकोक्त्या--कुलपुत्रक इत्येवमुक्त्या / ख्यातः-प्रसिद्धः / अपि, नाम्ना, सोमचन्द्रः, अजनि-जायते स्म, अभूदित्यर्थः / अस्य--सोमचन्द्रस्य / च, कुटुम्बिनी-पत्नी / विशुद्धशीला-पवित्रशीला / प्रथिता-ख्याता / श्रीदेव्यभिख्या-श्रीदेवोनाम्नी बभूव // 193 / / अथ तन्मित्रमाह-सुहृदितिसुहृत्तदीयो जिनदत्तनामा, श्रद्धाधनः श्राद्धकुलावतंसः / देशान्तरं यत्स्वधनानि तस्मै, समर्पयामास विसर्जनाय // 194 // व्याख्या-तदीयः-सोमचन्द्रस्य / सुहृद्-मित्रं / जिनदत्तनामा--प्रद्धा जिनोक्ततत्त्वश्रद्धानमेव धनं यस्य स / श्रद्धाधन:-देवगुर्वादिभक्तः, अत एव / श्राद्धकुलावतंसः-श्राद्धकुलेषु श्रावककुलेषु अवतंस: भूषणमिव, श्रावक आसीदिति शेषः / यत्--यः जिनदत्तः धने सत्यऽप्यधिकधनोपार्जनाकांक्षया / देशान्तरंअन्यदेशं गन्तुकामो / स्वधनानि विसर्जनाय-दानाय, सप्तक्षेत्र्यां वपनाय / तस्मै--सोमचन्द्राय / समर्पयामास-ददौ // 194 // तस्मिन्नवाप्ते विषयेऽपरस्मिन्, प्रयच्छतः स्वच्छतया धनानि / विश्राणनेजस्रमहिंस्रवृतेः, श्रद्धा विशुद्धाऽस्य समुल्ललोस // 195 // - व्याख्या-तस्मिन्--जिनदत्ते / अपरस्मिन्--अन्यस्मिन् / विषये--देशे। अवाप्ते-प्राप्ते, सति / स्वच्छतया-निःस्वार्थबुद्धया / धनानि, प्रयच्छत:--यथास्थानं ददतः / अस्य--सोमचन्द्रस्य / अहिंस्रवृत्ते:अहिंस्रा अकरा वृत्तिः आचारः यस्य तस्य दयालोः। अजस्रं--सततं / विश्राणने-दानकरणे / विशुद्धानिर्मला / श्रद्धा-तत्पूर्विका भक्तिश्च विश्वासपूर्विका भक्तिः / समुल्ललास--ववृधे // 195 / / तस्य प्रियाया अपि दानधर्मे, शमैकहेतो मतिरुज्जजम्भे / प्रियस्य वृत्तानुगुणेन नार्यः, प्रवर्तयन्ति व्यवहारमेताः // 196 // व्याख्या-तस्य-सोमचन्द्रस्य / प्रियायाः-पत्न्याः श्रीदेव्याः / अपि, मति:-बुद्धिः / शर्मैकहेनौशर्मणः कल्याणस्य एकः प्रधानं हेतुः कारणं तस्मिन्, शर्मकरे / दानधर्म, उज्जजम्भे-उज्जृम्भते स्म / ननु पत्युः दानधर्मप्रवृत्तौ पल्याः अपि किमिति तत्र प्रवर्त्तनम् इति चेत्तत्राह / एताः, नार्यः-स्त्रियः / प्रियस्य