________________ [ 258 ] त्रिवर्गमाराधयतो नृपस्य, श्रीमङ्गलस्य श्रितमङ्गलस्य / नीत्या प्रजा रञ्जयतः प्रभूताः, संवत्सरा जग्मुरमेयशक्तेः // 190 // व्याख्या-त्रिवर्ग-धर्मार्थकामान् / आराधयतः-सेवमानस्य / नोत्या-नयेन / प्रजाः, रजयतःआनन्दयतः / अमेया अपरिमेया शक्तिः कोशदण्डनं तेजः यस्य तस्य अमेयशक्तः। श्रितं मङ्गलं येन तस्य-श्रितमङ्गलस्य, श्रीमङ्गलस्य-मङ्गलकुम्भस्य / नृपस्य प्रभृता:-बहवः ! संवत्सरा:-अब्दाः, 'संवसरो वत्सरोऽब्द' इत्यमरः / जग्मुः-व्यतीयुः // 190 / / अथान्यदा श्रीजयसिंहसूरिं, प्रणम्य विज्ञानिनमन्वयुक्त / कृताञ्जलिः प्राग्भवमात्मनोऽपि, देव्यास्तथा मङ्गलकुम्भभूपः // 191 // व्याख्या-अथ-अनन्तरम् / अन्यदा-एकदा / विज्ञानिनं-विशिष्टसज्ज्ञानिनं / श्रीजयसिंहमार, प्रणम्य कृताञ्जलि:-बद्धाञ्जलिः, सन् / मङ्गलकुम्भभपः, देव्याः-त्रैलोक्यसुन्दर्याः, राज्याः / तथा आत्मनः-स्वस्य / अपि, प्राग्भव-पूर्वजन्मवृत्तान्तम् / अन्वयुक्त-हे भगवन् मया केन कर्मणोद्वाहे विडम्बना प्राप्ता, राश्या दूषणश्च प्राप्तमिति पृष्टवान् // 19 // अथ सूरेस्तत्कथनमाह-जगादेतिजगाद सूरिर्द्विजराजनिर्य - कान्तिप्रतिक्षिप्ततमः प्रचारः / अस्ति प्रशस्त क्षितिसंभृतश्री-प्रतिष्ठितं नाम पुरं गरीयः // 192 // व्याख्या - मूरि:-श्रीजयसिंहसूरिः / द्विजराजनिर्यकान्तिप्रतिक्षिप्ततमःप्रचार:-द्विजराजः शशधरश्चन्द्रः 'द्विजराजः शशधर' इत्यमरः / स इव नियंतीभिः निर्गच्छन्तीभिः कान्तिभिः प्रभाभिः प्रतिक्षिप्तः अपसारितः तमसां तिमिराणां प्रचारः प्रसरः येन स तादृशः अनभिभवनीयतेजःपुञ्जः / सन् , जगाद-किमित्याह / प्रशस्त-वर्णनीयं, क्षितौ पृथिव्यां संभृता पूर्णा श्रीः लक्ष्मीः यत्र क्षितिसंभृतश्रीअत एव / गरीय:-सर्वमहत् / प्रतिष्ठितं नाम पुरं-नगरम् / अस्ति // 192 / / तत्रर्जुरूपः कुलपुत्रकोक्त्या, ख्यातोऽपि नाम्नाऽजनि सोमचन्द्रः। कुटुम्बिनी चास्य विशुद्धशीला, श्रीदेव्यभिख्या प्रथिता बभूव // 193 //