________________ [ 257 ] अथ तत्र यशोभद्रसूरेरागमनमाह--अथेतिअथावनीशं वनपालकोपि, द्रुतं समागत्य समाजभाजम् / व्यजिज्ञपच्चारुमनोरमाख्ये, वने यशोभद्रगुरुं समेतम् // 187 // व्याख्या --अथ-एकदा / समाजभाज--सभास्थितम् ‘सभा संसद् समाजः' इत्यमरः / अवनीशं-- राजानं, सुरसुन्दरं / द्रुतं--शीघ्रं / समागत्य, वनपालक:--उद्यानपालः / अपि, चारुमनोरमाख्ये-चारुणि मनोहरे मनोरमाख्ये / वने-उद्याने / समेतं- समागतं / यशोभद्रगुरुं--यशोभद्रनामा सूरिः वने समायत इत्येवमित्यर्थः / व्यजिज्ञपत्--निवेदितवान् // 187 // ___ अथ राज्ञो दीक्षाग्रहणमाह--वितीर्येतिवितीर्य तस्मै परितुष्टिदानं, गुरुं प्रणन्तुं निरगानरे :नत्वोपदेशं विनिशम्य राज्ये, जामातरं न्यस्य ललौ स दीक्षाम् // 188 // व्याख्या-नरेन्द्र:--राजा सुरसुन्दरः / तस्मै-उद्यानपालकाय / परितुष्टिदानं--पारितोषिकं / वितीर्य-दत्त्वा / गुरुं--तं सूरि / प्रणन्तु-अभिवन्दितुं / निरगात्--ययौ / नत्वा-प्रणम्य / उपदेश-गुरोरुपदेशं / विनिशम्य-श्रुत्वा / राज्ये-जामातरं / मङ्गलकुम्भं न्यस्य--अभिषिच्य / सः-सुरसुन्दरः / दीक्षां, ललौ--गृहीतवान् // 188 // अथ तस्य प्रजानुरञ्जनमाह-राज्यमितिराज्यं समासाद्य तथा कथञ्चित्, स पालयामास नृपः प्रजास्ताः। यथा कदाचित्सुरसुन्दरस्य, मापस्य नास्माषुरपेतबाधाः // 189 // ___ व्याख्या - राज्यं, समासाद्य-प्राप्य / सः नृपः--मङ्गलकुम्भः / ताः प्रजाः तथा कथश्चित्-तेन केनापि विलक्षणप्रकारेण / पालयामास, यथा अपेतबाधा:-अपेताः दूरीभूताः बाधाः उपद्रवाः याभ्यस्ताः तादृशाः, ईतिभीत्यादिरहिताः, प्रजाः / कदाचित्--कदापि / मापस्य सुरसुन्दरस्य-राजानं सुरसुन्दरं 'स्मृत्यर्थदयेशः' इति स्मृधातोर्योगाद षष्ठी / न अस्मार्ष:--स्मृतवत्यः, सुरसुन्दरादप्यधिककुशलतया स प्रजाः तासां धर्मार्थकामनिराबाधता यथास्यात्तथा नीत्या पालयामासेत्यर्थः // 189 // बस्य कालातिक्रममाह --त्रिवर्गे ति