________________ [ 256 ] व्याख्या--उत्सवपूर्व-सोत्सवं / प्रवेशितां-स्वराजधान्यां / प्रियेण--पत्या / सम-सह / उपगतां-- समागताम् / एतां-निजां। पुत्रों-त्रैलोक्यसुन्दरीं / समीक्ष्य, सः, राजा--सुरसुन्दरः / तस्य, सचिवस्य, सर्व, दुश्चेष्टितं-कपटं / सत्यम्, अमंस्त-मेने // 183 // अथ नृपतिकृतसचिवदण्डमाह-सर्वेतिसर्वस्वमादाय नरेश्वरस्त, समादिशद्वध्यमबन्ध्यकोपः / कुम्भस्तदाकर्ण्य तदैव गत्वा, विज्ञप्य राजानममोचयत्तम् // 184 // व्याख्या-अवन्ध्यकोपः-अप्रतिरोध्यशासनः / नरेश्वर:--राजा सुरसुन्दरः / सर्वस्व-निखिलं वित्तम् / आदाय--गृहीत्वा / तं-सचिवं / वध्यं-पाणदण्डं / समादिशत्--आज्ञातवान् / तत्-प्राणदण्डं सचिवस्य / आकर्ण्य-श्रुत्वा / कुम्भ:--मङ्गलकुम्भः / तदैव, गत्या, राजानम्, विज्ञप्य--सम्प्रार्छ / तं-- सचिवम् / अमोचयत्-प्राणदण्डक्षमापनमकारयत् / एतेन दयालुताऽपराधिष्वपि सूचिता // 184 // अथ सचिवस्य देशनिर्वासनमाह-विमोचितस्तेनेतिविमोचितस्तेन दयालुनासो, विसर्जितोऽगाद् द्रुतमन्यदेशम् / कस्यापि कुत्रापि कदाचनापि, कुकर्म निर्माय न शर्मलाभः // 185 // व्याख्या-तेन, दयालुना-मङ्गलकुम्भेन गाढप्रार्थनया / विमोचितः--दण्डरहितः कृतः / असौ-- सचिवः / विसर्जितः-देशानिर्वासितः, सन् / द्रुतं-शीघ्रमेव / अन्यदेश-देशान्तरम् / अगाव-ययौ / युक्तं चैतत्तदाह / कस्यापि, कुत्रापि-स्थाने / कदाचनापि--काले / कुकर्म-असत्कार्य / निर्माय--कृत्वा / शर्मलाभः--शर्मणः सुखस्य लाभः प्राप्तिः / न-अतस्तत्य देशान्निर्वासनं युक्तमेवेति भावः // 185 / / ____ अथ तस्य यौवराज्याभिषेकमाह--सेति... स यौवराज्यं नृपतेः प्रसन्ना-लब्ध्वा सुखं वैषयिकं बभाज / तया समं पौरजनोपगीतां, विस्तारयन् कीर्तिमिहेन्दुशुभ्राम् // 186 // व्याख्या-प्रसन्नात् , नृपतेः सकाशात् / यौवराज्य--युवराजपदं / लब्ध्वा, स:-मङ्गलकुम्भः / इह-जगति / पौरजनैः, उपगीताम्-गीयमानाम् / इन्दुशुभ्राम्-इन्दुश्चन्द्र इव शुभ्रा तामुज्ज्वलां / कीर्ति, विस्तारयन्, तथा--त्रैलोक्यसुन्दर्या / समं वैषयिक-विषयोगवं / सुखं, बभाज-बुभेजे // 186 / /