________________ [ 255 ] सिंहोऽपि गत्वा त्वरितं नृपाय, प्रत्यर्पयामास स तं नृवेषम् / निशम्य तस्या वरलाभवृत्तं, मुदान्वितस्तं प्रशशंस भूपः // 180 // व्याख्या--स: त्रैलोक्यसुन्दर्या विसृष्टः / सिंहः, अपि, त्वरितं-शीघ्रमेव / गत्वा, नृपाय, तंत्रैलोक्यसुन्दरीदत्तं / नृवेषं, प्रत्यर्पयामास-ददौ / भूपः- राजा सुरसुन्दरः / तम्या:-त्रैलोक्यसुन्दर्याः / वरलाभवृत्तं-पतिप्राप्तेः उदन्तं / निशम्य-श्रुत्वा / मुदा--हर्षेण / अन्वितः-युक्तः, सन् / तं-सिंह, प्रशशंस // 18 // अथ तत्प्रशंसामेवाह- त्वमेवेतित्वमेव सिंहाखिलवैरिसिंहः, परोपकारःवणस्त्वमेव / इति प्रशस्याङ्गविभूषणानि, वासांसि चास्मै नृपतिय॑तारीत् // 181 // व्याख्या--सिंह !, अखिलवैरिसिंह:-अखिलवैरिणां कृते सिंह इव / त्वमेव, परोपकारप्रवण:परोपकारे परकार्यसाधने प्रवणः तत्परः पटुर्वा त्वमेव / इति-इत्थं / प्रशस्य-प्रशंसां कृत्वा / नृपतिः, अस्मै-सिंहाय / अङ्गविभषणानि-अङ्गस्य निजाङ्गस्य विभूषणानि मण्डनःनि, एतेन नृपतेरतिप्रसन्नता सूचिता / वासांसि च, व्यतारीत-पारितोषिकं ददौ, कृतकार्यो हि स्वामिना सक्रियत एवेति भावः // 18 // __ अथ मङ्गलकुम्भस्य पुनश्चम्पाऽऽगमनमाह-अवाप्येतिअवाप्य चम्पाधिपतेनिदेश, निवेद्य तं मालवव सवस्य / / स मङ्गलश्चम्पकपुष्पगौरश्चम्पां परीवारयुतः समागात् // 182 // व्याख्या-चम्माधिपते:--सुरसुन्दरस्य। निदेशम-आज्ञाम्, इहागच्छेत्येवंरूपाम् / अवाप्य-प्राप्य / तं--निदेशं / मालववासवस्य-अवन्तीशाय वैरिसिंहाय / निवेद्य--चम्पकपुष्पमिव गौरः गौरवर्णः। चम्पकपुष्पगौरः, सः, मङ्गल:-मङ्गलकुम्भः / परीवारयुत:-परीवारेण परिच्छदेन युतः समन्वितः सन् / चम्पां-- तदाख्यनगरी। समागात-आगतवान् // 182 // अथ राज्ञो मन्त्रिदुर्वृत्तज्ञानमाह--प्रवेशितामिति-- प्रवेशितामुत्सवपूर्वमेतां, समं प्रियेणोपगतां स पुत्रीम् / निरीक्ष्य राजा सचिवस्य तस्य, दुश्चेष्टितं सत्यममस्त सर्वम् // 183 // .