________________ [ 263 ] व्याख्या-स्थिरां-दृढां, अथ च अन्येन अपरिहरणीयाम् / क्षमां-पृथिवीम्, अथ च परापराधसहिष्णुत्वम् दैन्याकरणेन परिसहोपसहनं वा / आश्रयत:-दधतः / अस्य-मङ्गलकुम्भस्य | नृपस्य यथैवयादृशमेव / राज्येन, शर्म-सुखं / बभूव, तथा तादृशमेव / हृद्याम्-निर्मलां / चारित्रलक्ष्मीम् प्रतिपद्यस्वीकृत्य / कषायकालुष्यजयात्-कषायेण क्रोधादिना यत्कालुष्यम् दूषितचित्तवृत्तिता तस्य जयाव दूरीकरणाव, राज्यसुखव्रतपालनसुखयोः साम्यमिति भावः / यद्वा राज्ये तथा शर्म न बभूव, यथा कषायकालुष्यजयादित्येवमन्वयम्, राज्यसुखापेक्षया चारित्रपालने सुखाधिक्यमिति भावः // 26 // अथ तस्य स्वर्लोकप्राप्तिमाह-तपांसीति - तपांसि तप्त्वा स सुदुस्तपानि, निर्माय कन्दर्पमदर्पकं च / विहृत्य पृथ्वीं च मुनिस्तयामा, स्वलॊकलक्ष्मीमुररीचकार // 207 // व्याख्या-सुदुस्तपानि–अन्यैस्तप्तुमशक्यानि / तपांसि, तप्त्वा-अतएव / कन्दर्पम्-फामवासनाम् / अदर्पकम्-अभिमानरहितं / निर्माय-कृत्वा, कामं विजित्येत्यर्थः / पृथ्वीं च, विहृत्य-पृथिव्यां विहारं कृत्वा / सः-मङ्गलकुम्भो मुनिः / तया-त्रैलोकसुन्दर्या / अमा-सह / स्वर्लोकलक्ष्मी-स्वर्गस्य लक्ष्मी सम्पत्तिम् / उररीचकार-स्वीचकार, नाकपतिर्जातः // 207 // अथाहदुक्तकथामुपसंहरति विद्याधरः-इत्थमिति-- इत्थं चरित्रं मुनिमङ्गलस्यो - पदिश्य वाचं विससर्ज सोऽर्हन् / संसारसंभूतमहाधिदुःख - प्रस्थानभम्भानिनदानुकाराम् // 208 // व्याख्या-इत्थं-पूर्ववर्णितक्रमेण / मुनिमङ्गलस्य-मुनेः मङ्गलस्य मङ्गलकुम्भस्य / चरित्रं-वृत्तान्तम् / उपदिश्य-व्याख्याय / सः, अर्हन्-जिनेश्वरः / संसारसंभूतमहाधिदुःखप्रस्थानभम्भानिनदानुकाराम्संसारे संभूतं यत् महान् आधिः मानसी व्यथा दुःखं च, अथवा आधिजन्यं दुःखं तस्य प्रस्थाने दूरीकरणे भम्भानिनदस्य भम्भा जयढक्का तस्या निनदस्य शब्दस्य अनुकारा अनुकरणरूपा तां / वाचं, विससजेसमाप्तवान् / मङ्गलकुम्भस्य कथाम् उपदिश्य विरतोऽभूदित्यर्थः 'शब्दे निनादनिनद' वित्यमरः // 208 // ___ अथ प्रस्तुते मुदित्वा विद्याधरस्य प्रसङ्गसमाधानमाह-अथेतिअथाहमर्हन्तमपृच्छमेतं, विद्याधराणां कथमाधिपत्यम् / . ममाघटिष्ट प्रतिपत्पटिष्ठ, !, प्रकाशयेदं प्रणतानुकम्प ! // 209 // :