________________ [ 249 ] व्याख्या-नृपेण, दत्तं, पुवेष, धारयन्ती, अक्षाणि-इन्द्रियाणि / उपवासयन्ती–कृतव्रतपरिप्रहा इत्यर्थः / एतेन स्वकार्यसाधने महान् उद्योगः सूचितः / पथि-मार्गे / प्रयान्ती-गच्छन्ती / ननपुरुषान् / अपि, वार्तयन्ती-भाषमाणा। सा-त्रैलोक्यसुन्दरी / केनापि-पुरुषेण / स्त्रीत्वेनारियमित्येवं / नालक्षि-न परिचिता / एतेन तस्याः वेषपरिवर्तननिपुणतोक्ता, अन्यथा लक्षितत्वस्य संभावनया कार्यविघ्नसंभवादिति भावः // 16 // अथ मार्गे जनकृततत्सत्कारमाह--समेतीतिसमेति सूनुः सुरसुन्दरस्य, त्यागी गुणी क्षोणिपुरन्दरस्य / इति श्रुतिग्राहितया जनौघा, लात्वोपदां द्रष्टुमुपागमस्ताम् // 161 // व्याख्या--क्षोणिपुरन्दरस्य-राज्ञः / सुरसन्दरस्य-चम्पाधिपतेः / त्यागी गुणी-च / सूनुः-पुत्रः। समेति-गच्छति / इति–इत्थं / अतिग्राहितया-श्रुत्वा / जनौघा:-नरवृन्दानि / उपदाम्-उपहारं / लात्वा-आदाय / तां-त्रैलोक्यसुन्दरीं / द्रष्टुम् , उपागमन्-आगतवन्तः / तामुपहारयामासुरित्यर्थः // 161 / / __ अथावन्तीशकृतसत्कारमाह-अवन्तीतिअवन्तिदेशाधिपतिर्नरेन्द्रः, पञ्चालदेशाधिपतेः कुमारम् / समाव्रजन्तं विनिशम्य चारै-रुपाचरत् संमुखमानदानः // 162 // व्याख्या--अवन्तिदेशाधिपतिः-वैरिसिंहाख्य-नरेन्द्रः / चारैः-गूढपुरुषैः / पञ्चालदेशाधिपतेःपाञ्चालदेशस्थचम्पानगरीनायकस्य सुरसुन्दरनृपस्य / कुमारं, समावजन्तम्-आगच्छन्तं / विनिशम्यश्रुत्वा / सन्मुखमानदान:-अभिसंमुखं यानसन्मानादिदानैः / उपाचरत्-समानयत् // 162 // अथ तत्र तस्य स्थितिमाह-प्रदापित इतिप्रदापिते मालववासवेना-वासे नरेन्द्रस्य सुतः स तस्थौ / दौर्विध्यविच्छेदकराणि यच्छन्, द्विजोत्तमानां द्रविणानि कामम् // 163 // .. व्याख्या-मालववासवेन-अवन्तीश्वरेण वैरिसिंहेन / प्रदापिते-समर्पिते / आवासे-शिबिरे / नरेन्द्रस्य-सुरसुन्दरम्य / सुतः-कृतपुंवेषा सुता, सः / द्विजोत्तमानां-ब्राह्मणानां कृते / दौर्विध्यविच्छेद