________________ [ 250 ] कराणि-दौर्विध्यस्य निरस्वत्वस्य “निःस्वस्तु दुविधो दीनो दरिद्रो दुर्गतोऽपि सः” इत्यमरः / दुर्भाग्यस्य विच्छेदकराणि अपसारकाणि / द्रविणानि-गोहिरण्यादीनि / यच्छन्-प्रतिपादयन् / तस्थौ-निवासं कृतवान् // 163 / / अथ तस्य स्वपितृदत्ताश्वावलोकनमाह-सगेवर इतिसरोवरे वारिविसारिपान-हेतोः प्रयातः पितनामवर्णैः / अङ्काञ्चितान पञ्च तुरङ्गमाँस्ता-न्स एकदाऽपश्यदऽदृश्यदोषान् // 164 // व्याख्या--मः-कृतपुंवेषः, त्रैलोक्यसुन्दरी / एकदा. सगेवरे-तडागे / वारिविसारिपानहेतोःवारि जलं च तद्रिसारि विस्तृतं निर्मल च तस्य पानहेतोः, नीरपानार्थमित्यर्थः / प्रयातः-आगतान् / पितनामवर्णैः, अङ्काञ्चितान्-चिह्नोपेतान् / अदृश्यदोषान्-अत एव शुभलक्षणसम्पन्नान् / तान्–प्रसिद्धान् / वल्लभदेशीयान् / पञ्च, तुरङ्गमान्-अश्वान् / अपश्यत्-अवलोकते स्म // 16 // अथाश्वस्थानान्वेषणमाह-एत इतिएते तुरङ्गाः प्रविशन्ति यत्र, तत् सद्म सद्मप्रभुनाम मत्वा / ब्रूतत्य मह्य झटिति स्वभृत्या-नित्यादिशत् सिंहमुखेन सोऽपि // 165 // व्याख्या--स:-कल्पितपुंवेषः त्रैलोक्यसुन्दरी / अपि, सिंहमुखेन-सिंहद्वारा / स्वभृत्यान्-निजपरिचारकान् / 'एते तुरङ्गाः-अश्वाः। यत्र-गृहे : प्रविशन्ति–यान्ति / तत, सद्म-गृहं / समप्रभुनाम-गृहपतेः नाम च / मत्वा-ज्ञात्वा / झटिति-शीघ्रम् ! ऐत्य-आगत्य / मह्यं, व्रत-कथयत / इतिइत्थम् / आदिशत्-निदेशं ददौ // 165 / / तथाकृते तैः क्षितिपालसूनु-वितत्य सिंहेन समं विचारम् / निमन्त्रयामास समं समग्रै-छात्रैरुपाध्यायमधीयमानैः // 166 // व्याख्या-तैः-अनुचरैः / तथाकृते-तत्सम सद्मप्रभुनाम च ज्ञात्वा कथिते सति / क्षितिपालसूनु:-राज्ञः सुरसुन्दरस्य अपत्यं, सा त्रैलोक्यसुन्दरी / सिंहेन सम-सह / विचारं, वितत्य-कृत्वा / समग्रैः-सकलैः / अधीयमानः-पठ्यमानैः / छात्रः-विद्यार्थिभिः / सम-सह / उपाध्यायं-शिक्षकं / निमन्त्रयामास-भोजनाद्यर्थमाहूतवान्, इत्यर्थः // 166 / /