________________ [ 248 ] तदाख्यराजपुरुषः / अपि, तया-त्रैलोक्यसुन्दर्या / सम-सह / प्रास्थित-प्रस्थानमकरोत्, सत्यासत्यत्वनिरीक्षणाय साहाय्याय चेति भावः // 157|| अथ वरलाभे साधनसम्पत्तिमाह-समुन्सुकमितिसमुत्सुकं तन्मन एव पूर्व, सिंहस्ततः क्षोणिभुजा प्रणुन्नः। ततोऽपि कामः प्रगुणीकृतेषु--स्ततो वरं सा लभतां न कि स्वम् // 158 // _ व्याख्या-पूर्व-प्रथमं / समुत्सुकं-सोत्कण्ठम्, प्रसन्नमिति यावद, मनः प्रसादस्य कार्यसिद्धिसूचकत्वादिति भावः / तन्मनः एव-कार्यसिद्धिसूचकमिति शेषः / ततः क्षोणिभुजा-राज्ञा / प्रणुन:प्रेरितः / सिंह:-द्वितीयं साधनम्, योग्यसाहाय्यस्य कार्यसिद्धिनिबन्धनत्वात् इति भावः, न केवलं लौकिकमेव साधनं किन्तु दिव्यमपीत्याह / ततः प्रगुणीकृतेषुः-प्रगुणीकृता सन्नद्धा इषवः बाणाः येन स तादृशः / कामः-कामदेवः, लोकाद्भूतसौन्दर्यशालित्वात्कामस्तत्स्थः सहाय इति दिव्यसाहाय्यं तृतीयमिति भावः / तत–तस्माद्धेतोः / सा-त्रैलोक्यसुन्दरी / स्व. वरं-पतिं / किं न लभताम् ? अपि त्ववश्यं लभतामित्यर्थः, सहायसम्पत्तेः कार्यसिद्धेरिति भावः // 158 // अथ राज्ञोऽवस्थामाह-वीरैरितिवीरैरनेकैरनुगम्यमानां, प्रस्थाप्य तां भूमिपतिर्गभीरः। कारीपसंछन्नकृशानुवच, प्रच्छन्नकोपः सचिवाधमेऽस्थात् // 159 // व्याख्या-वीरैः-भटैः / अनेक:-बहुभिः / अनुगम्यमानां, तां-त्रैलोक्यसुन्दरीं / प्रस्थाप्यप्रेष्य / गभीरः-धीरः, एतेनावसरज्ञत्वमुक्तम् / मिपतिः, कारोषसछन्नकशानुवच्च-करीषाणां शुष्कगोमयानां समूहः कारीषं तत्र स छन्नः “तत्त शुष्कं करीषः, तद् गोमयमित्यर्थः” इत्यमरः / आवृतः कृशानुरग्निः, तद्वत् / सचिवाधमे, प्रच्छन्नकोप:-गुप्तरोषः सन् / अस्थाद-स्थितः // 156 // अथ तस्याः वेषान्तरेणापरिचेयत्वमाह-केनापीति केनापि नालक्षि पथि प्रयान्ती, स्त्रीत्वेन सा नृनपि वार्तयन्ती / / नृपेण दत्तं खलु धारयन्ती, पुवेषमक्षाण्युपवासयन्ती // 160 //