________________ [ 247 ] अत्र च विषये देव एव प्रमाणमित्याइ-पुण्यैरितिपुण्यैर्ममायं घटितश्विरलै-स्तेषां द्विषत्त्वं सहसा कथं स्यात् ? दिगीशवृन्दांशभवः प्रभुर्वा, स्वयं विचारं कुरुतां विचारम् // 155 // व्याख्या-अयं-प्रस्तुतः वृत्तान्तः / मम चिरत्नैः-पूर्वोपार्जितैः / पुण्य-कर्मभिः / घटित:समापतितः / सहसा-अकस्मादेव / तेषां-मन्त्र्यादीनाम् / द्विषत्त्वं-मयि शत्रुत्वं / कथं स्यात्-कथं भवेत् ? नाकारणं किञ्चिद्भवतीति भावः / वा-अथवा / दिगीशवृन्दांशभव:-दिगीशवृन्दानाम् इन्द्रादिदिक्पालानामशै तेजोभिः भव उत्पन्नः / प्रभुः-राजा भवान् / स्वयं-स्वत एव / विचार-विशिष्टः चारः गूढपुरुषः यस्मिन् तद्यथा स्यात्तथा, चारपुरुषं नियोज्येत्यर्थः “चारश्च गूढ़पुरुषः" इत्यमरः / विचारं कुरुताम्-युक्तायुक्तत्वे पश्यतु, नहि मत्सदृशी कापि अबला सहसा दण्डनीयेति भावः // 155 / / सम्प्रति स्वोक्तमुपसंहरति-नरेन्द्रेतिनरेन्द्र ! तन्मां विसृज प्रसाद, सृज त्यजाकारणकोपमेतम् / पश्चादपि क्रोधफलं मयि त्वं, प्रभो ! न किं दर्शयितुं प्रभुः स्याः ? // 156 // ___ व्याख्या-नरेन्द्र ! तत्-तस्माद्धेतोः / मां, विसृज-गमय / प्रसाद-मयि अनुग्रह / सृज, एतं-वर्तमानम् / आकरणकोपं, त्यज, मयि-न किमपि कोपकारणमिति भावः / प्रभो !-राजन् ! पश्चादपि-अवन्त्यागमनानन्तरमपि / क्रोधफलं, दर्शयितुं-दण्डयितुमित्यर्थः / त्वं प्रभुः-समर्थः / न स्याः किम् ?-अपि तु अवश्यं स्याः / ततश्च केवलं सचिवोक्त्या नाहं दण्डनीया, किन्तु परीक्ष्यवाहं दण्डनीया, अन्यथाऽन्यायसम्भवादिति साम्प्रतं तव कोपत्याग एवोचित इति भावः / / 156 // अथ तस्या अवन्तीप्रस्थानमाह-आज्ञेतिआज्ञापितस्तत्क्षणमेव राज्ञा, प्रदाय शिक्षा द्रविणं चमू च / प्रत्यर्थिदन्ताबलभेदसिंह-स्तया समं प्रास्थित सोऽपि सिंहः // 157 // व्याख्या - राज्ञा-सुरसुन्दरेण / तत्क्षणम् एव, शिक्षा-कालोचितोपदेशम् / द्रविण-मार्गव्ययाद्यर्थ धनम् / चमूम्-रक्षणाय सेनां / च प्रदाय, अज्ञापितः, प्रत्यर्थिदन्तावलभेदसिंहः-प्रत्यर्थिनः शत्रव एव दन्ताबला हस्तिनः ‘दन्ती दन्ताबलो हस्ती' इत्यमरः / तेषां भेदे विदारणे सिंह इव / सः, सिंह: