________________ [ 146 ) सिंहस्य विज्ञापनयैव राज्ञा-ऽऽहूता सुता व्यज्ञपयत् स्ववाचा / पुंवेषमाश्रित्य तवाज्ञयेत्वा-वन्तीं च जामातरमानयामि // 152 // व्याख्या-सिंहस्य-तदाख्यराजपुरुस्य / विज्ञापनया-निवेदनेन कृत्वा / एवं राज्ञा, आहूता, सुता-पुत्री त्रैलोक्यसुन्दरी / स्ववाचा-न त्वन्यद्वारेण, समक्षस्थितस्य स्वयमेव विज्ञापनौचित्यादिति भावः / व्यज्ञपयत्-किमित्याह / तव, आज्ञया, पुंवेष-पुंस: वेषम् रूपम् / आश्रित्य-कृत्वा / अवन्तीतदाख्यनगरीं / इत्वा-गत्वा / च जामातरं-त्वत्पुत्रीपतिम् / आनयामि-आनेष्ये, मन्त्रिपुत्रस्तु न तव जामाता, किन्तु मन्त्रिणा छलितस्त्वमिति भावः / / 152 / / / ननु अस्य मन्त्रिपुत्रस्य कथं न जामातृत्वमिति चेत्तत्राह-आकस्मिकीतिआकस्मिकी कुष्ठरुजा शरीरे, ज्वरादिवन्नैव भवेन्नराणाम् / शापेन कस्यापि मुनेर्यदि स्या-तथापि पूतिव्रणसंश्रिता न // 153 // व्याख्या - नराणां, शरीरे, ज्वरादिवत्-तापादिवव, यथा ज्वरादिः केनापि हेतुना सद्य एव जायते तथेत्यर्थः / आकस्मिकी-कारणं विना / कष्ठरुजा-कुष्ठाख्यो रोगः / नैव भवेत् / यदि कस्यापि मुनेः शापात्-आक्रोशात् / स्याद्-भवेदपि आकस्मिकी सा। तथापि, पूतिव्रणसंश्रिता-पूत्या पूयेन व्रणेन च संश्रिता युक्ता / न-नैव भवेत् / एकरात्रेणैवेति शेषः / एवं च तादृशकुष्ठरोगस्य एकरात्रेणासम्भवात् / पूर्वत एवायं कुष्ठरोगी, न तु मम संगादिति नायं तव जामाता, तस्य तादृशरोगानुपहत्वादिति भावः // 153 // स्वल्पकालेनैव मन्त्रिकपटस्योद्घाटनं भवितेत्याह-दुर्वृत्तेतिदुर्वृत्तमेतत्सचिवस्य सर्वं, कियच्चिरं स्थास्यति संवृतं वा / अन्तर्दधाने नहि पुण्यपापे, सुगन्धदुर्गन्धवदावृते च // 154 // व्याख्या-एतत्सर्व-सम्पन्नं / सचिवस्य, दुर्वृत्तं-दुराचरणं / वा कियच्चिरं–कियत्कालं / संवृतंगुप्तं / स्थास्यति-शीघ्रमेवोद्घाटितं भविष्यतीति भावः / हि-यतः / पुण्यपापे-धर्माधौं / अन्तर्दधानेतिरोहिते / सुगन्धदुर्गन्धवद्, आवृते-आच्छादिते / च, न-नैव तिष्ठतः, अतोऽवश्यं प्रकटितं स्यादिति भावः // 154 //