________________ [ 245 ] ___ व्याख्या-विज्ञतमः-मन्त्री / अपि, प्रभाते, सेवागतः-सेवार्थमागतः सन् / भूमिपालं, व्यजिज्ञपत्निवेदयति स्म, किमित्याह-तादृक्-लोकविलक्षणः / सुरूपोऽपि-सुन्दरः अपि / मे-मम / सुत:-पुत्रः / त्वदङ्गजासङ्गवशेन-त्वदङ्गजायाः त्वत्पुत्र्याः संगवशेन / रुग्ण:-रुग्णः व्याधितः / अभवत्-एवं च तव पुत्री नितरां कुलक्षणेति एष सम्बन्धो मम अनर्थायैव जातः इति भावः // 14 // ननु व्याधेः प्रतीकारो विधेयः, सर्वस्यैव हि व्याधिर्भवति, न त्वत्र सम्बन्धदोष एव कारणमिति चेत्तत्राह तदितितत् के प्रतीकारमहं प्रकुर्वे, कस्याग्रतो वम्यसमाधिमेतम् / . श्रुत्वेति देवीमनुजेश्वराभ्यां, निवारिता दृष्टिपथात् ऋधा सा // 15 // व्याख्या-तव-तस्माद्, रुग्णाद्धेतोः / -किन्नामानं / प्रतीकारं-चिकित्साम् / अहं. कर्वेन जानानि तस्य प्रतीकारम्, न च तत्प्रतीकारसंभवः, रोगस्यासाध्यत्वादिति भावः / नन्वन्येन भिषज-चिकित्सा कारयितव्येति चेत्तत्राह / कस्य-भिषगादेः / अग्रतः, असमाधिम्-अचिकित्स्यम् / एतं-रोगं, वृत्तान्तं च / वच्मि-राजपुत्र्याः संगवशात् मम पुत्रो रुग्णो जात इति कथं राज्ञः कलङ्ककरं वचनं वचनीयम् , तस्मादसमाधिरेवायं रोग इति न मम मन्दभाग्यस्य किमपि शरणमिति भावः / इति-इत्थं, मन्त्र्युक्तं / श्रुत्वा देवीमनुजेश्वगभ्यां-महिषीराजभ्यां / ऋधा-एषा / सा-त्रैलोक्यसुन्दरी / दृष्टिपथात्-अक्ष्णामप्रतः / निवारिता-दूर्गकृता, न त्वया ममाग्रे आगन्तव्यमित्यर्थः // 15 // ___ अथान्यद्वारेण त्रैलोक्यसुन्दरीकृतस्ववृत्तनिवेदनमाह-राजन्येतिराजन्यसिंहं निजगाद सिंह, विज्ञापनायै जनकस्य राज्ञः / क्रुद्धस्य नेतुः पुरतः सुतेन, गन्तुं न शक्यं सुतया न चापि // 151 // व्याख्या --सा दृष्टिपथान्निवारिता त्रैलोक्यसुन्दरी / जनकस्प-पितुः / राज्ञः-शासकस्य / विज्ञापनायैनिवेदनाय / राजन्यसिंह-राजन्येषु क्षत्रियपुत्रेषु सिंह इव, एतेन तस्य महापराक्रमवत्त्वं च सूचितम् / सिंह-तन्नामानं राजपुरुषं / निजगाद-कथयामास, ननु स्वत एव किमिति न निवेदयामास इत्यत आह / ऋद्धस्य-क्रोधमाप्तस्य / नेतुः-शासकस्य, जनकस्य सतोऽपि / पुरतः-अग्रे / सुतेन-पुत्रेण / गन्तुं न शक्यम्, न चापि सुतया-पुत्र्या, साक्षादवलोकने क्रोधाधिक्यसंभवाद् भयाञ्चेति भावः // 151 //