________________ [ 244 ] अथ तस्य विद्याऽऽदानमाह-अध्यापकेतिअध्यापकस्याखिलवेदविद्या-क्षीरोदसामीप्यमवाप्य तूर्णम् / ततः स पीताब्धिरिव प्रकृत्या, विद्यामृतं तच्चुलुकीचकार // 146 // व्याख्या-अध्यापकस्य-शिक्षकस्य गुरोः / अखिलवेदविद्याक्षीरोदसामीप्यम्-अखिलाया वेदादिविद्यायाः क्षीरोदस्य सागरस्य सामीप्यमन्ते वामित्वम् / अवाप्य-प्राप्य / सः-मङ्गलकुम्भः / ततः-अध्यापक सकाशात् / तूर्ण-स्वल्पेनैव कालेन, एतेन तस्यासाधा णप्रतिभावत्वं सूचितम् / पीताब्धिरिव-पीतः अब्धिः सागरः येन स अगस्त्य इव, “अगन्स्योगन्तिः पीताधिः” इति हैमः / प्रकृत्या-सहजत एव / विद्यामृतंविद्या एवामृतं जलं / तत् चुलुकीचकार-यथा अगस्त्यः सागरं चुलुके कृत्वा पीतवान् तथा स विद्यामृतं पीतवान् // 46 // ___ अथत्रैलोक्यसुन्दरीवृत्तमाह -अथेति-- अथावनीवासवनन्दिनी सा, त्रैलोक्यसुन्दर्यपि सुप्रबुद्धा / पार्श्वे शयानं सचिवस्य पुत्रं, विलोक्य वैलक्ष्यविलक्षणास्या // 147 // अपास्य तं दुष्टरुजाभिभूतं, भूतार्त्तवद्वासगृहानिरीय / दासीव दासीजनसन्निधाने, निशां कथञ्चिद् गमयाम्बभूव // 148 // व्याख्या-अथ-मङ्गलकुम्भगमनान्तरम् / अवनीवासवनन्दिनी-अवनीवासवस्य महीन्द्रस्य नन्दिनी पुत्री / सा-त्रैलोक्यसुन्दरी / अपि, सुप्रबुद्धा-अपास्त नद्रा सती / पार्थे-समीपे / सचिवस्य, पुत्रं, शयानं, विलोक्य-वैलक्ष्येण वैरस्येन विलक्षण विवर्णमास्यं मुखं यस्याः सा वैलक्ष्यविलक्षणास्यानिर्वेदोदस्तमुखा सती / दुष्टरुजाभिभूतं-दुष्टया रुजया कुष्टाख्येन रोगेण अभिभूतमाक्रान्तं / तं-सचिवपुत्रं मङ्गलकुम्भवेषधारिणम् / अपास्य-त्यक्त्वा / भृतात्वत्- भूताविष्टवत् / वासगृहात्, निरीयनिर्गत्य / दासीजनसन्निधाने, दासी इव-दीना / कश्चित्-महता कष्टेन / निशां-रात्रिं / गमयाम्बभूवव्यतीयाय // 147 148 // ___ अथ सचिवस्य भूपच्छलनमाह - संवेतिसेवागतो मन्त्र्यपि भूमिपालं, व्यजिज्ञपद्विज्ञतमः प्रभाते / तादृक्सुरूपोऽपि सुतोऽभवन्मे, त्वदङ्गजासंगवशेन रुग्णः // 149 //