________________ [ 243 ] अथ पितृभ्यां वृत्तनिवेदनमाह-वृत्तमितिवृत्तं यथावृत्तमथ स्वकीयं, निवेद्य पित्रोः प्रतिपत्तिपूर्वम् / अनीनहत्तानपि पञ्च वाहान, हम्पे विनिर्माय स वाजिशालाम् // 143 // व्याख्या--अथ-अनन्तरं, वृत्तमनतिक्रम्य / यथावृत्तं यथाजातं / स्वकीयं-नैनं / वृत्तम्उदन्तम्, 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादि' त्यमरः / निवेद्य-कथयित्वा / स:-मङ्गलकुम्भः / पित्रो:मातापित्रोः / प्रतिपत्तिपूर्व-ज्ञापनपूर्वकं स्वीकृत्य / हम्ये-आवासे / वाजिशालां-मन्दुरां 'वाजिशाला तु मन्दुरेत्यमरः' / निर्माय. तान्-आनीतान् , वल्लभदेशीयान् / पश्चापि वाहान्-अश्वान् / अनीनहद्बध्नाति स्म // 143 / / ___ अथ तस्य विद्याध्ययनोद्योगमाह--विद्येतिविद्याविहीनस्य नरस्य पुंस्त्वं, तिर्यक्त्वमेव प्रकटीकरोति / इति स्वचित्ते प्रतिपद्य विद्या-भ्यासाय यत्नं स दृढीचकार // 144 // व्याख्या --विद्याविहीनस्य-मूर्खस्य / नरस्य, पुंस्त्वं-पुरुषता / तिर्यक्त्वं-पशुत्वमेव / प्रकटीकरोति-प्रकाशयति 'ज्ञानेन हीनाः पशुभिः समाना' इत्युक्तेरिति भावः / इति-इत्थं / स्वचित्ते, प्रतिपद्य-विचार्य / सः-मङ्गलकुम्भः / विद्याभ्यासाय, यत्नम-उद्योगं / दृढीचकार-दृढं यत्नमकार्षीदित्यर्थः / एतेनात्युत्साहः सूचितः // 144 / / वाग्वैभवलाभाय विद्याध्ययनमावश्यकमित्याह-वागिति वाग्वैभव केवलमेव तज्ज्ञाः, पुंस्त्वे निदानं परमामनन्ति / साध्यस्य सिद्धिं हि विधित्सतादौ, तत्साधनं साधनमेव साध्यम् // 145 // व्याख्या-तज्ज्ञाः-विशेषज्ञाः / पुंस्त्वे-नरत्वे / केवलम् एकं / वाग्वैभवं-वाक्पटुत्वमेव / परम्-उत्कृष्टं / निदानं-हेतुम् / आमनन्ति-मन्यन्ते / ननु तर्हि तत्साधनायैव प्रथमं यत्नः कार्यः, किमिति विद्याध्ययनाय प्रायततेति चेन्न, तदाह / हि-यतः / साध्यस्य-उद्देश्यस्य / सिद्धि-प्राप्ति / विधित्सताकर्तुमिच्छता / आदौ-प्रथमं / तत्साधनम्-उद्देश्यहेतुं / साधन-सामग्रीभूतं, वस्तु / एव, साध्यंसम्पाद्यम् / एवञ्च वाग्वैभवसाधनसाधनं विद्यैव, नतु प्रकारान्तरमिति तदध्ययनायैव यत्रं चकारेत्यर्थ // 145 //