________________ [ 242 ] मनुष्यधर्मा, स:-प्रसिद्धः / कुबेर:-यक्षराज एव, नान्यः, अन्यस्तु सर्वो देवधर्मवेत्यर्थः / “मनुष्यधर्मा धनदो राजराजो धनाधिपः" इत्यमरः / पुनः, काण:-एकाक्षः / एक:-केवलं / भार्गवः-शुक्रः / एव-नान्यः / काम-निश्चयेन / प्रतीत:-प्रसिद्धः, तस्यां नगर्याम् अन्धः पङ्गुः काण: पामरश्च कोऽपि नासीदिति भावः / अत्र अप्रश्नतोऽपि धृतराष्ट्रादेरन्यस्यान्धादेर्व्यवच्छेद इति परिसंख्यालङ्कारः / तल्लक्षणं यथा-"प्रश्नादप्रश्नतो वापि, कथिताद्वस्तुनो भवेत् / नागन्यव्यपोहश्चे-च्छाब्द आर्थोऽथवा तदा // "परिसंख्या" अत्र चार्थः अन्यस्यान्धादेर्व्यवच्छेदः // 140 // अथ तं दृष्ट्वा पित्रोर्मोदमाह-समागतमितिसमागतं तं पितरौ समीक्ष्य, प्रमोदमासेदतुरञ्जसापि / गाढ समालिंग्य चुचुम्बतुस्त-च्छिरोऽम्बुजं षट्पददम्पतीव // 141 // व्याख्या-पितरौ-माता-पितरौ / तं-मङ्गलकुम्भं / समागतं, समीक्ष्य, अन्जसा-शीघ्रमेव / प्रमोद-प्रहर्षम् / आसेदतुः-प्रापतुः / तथा गाढं समालिंग्य, तच्छिरोऽम्बुजं-तस्य मङ्गलकुम्भस्य शिरः मस्तकमेवाम्बुजं तत् / षट्पददम्पती-षट्पदौ भ्रमरौ च तौ दम्पती जायापती च तौ / व-इव, 'व वायथा-तथेवैवं साम्ये' इत्यमरः / नत्विवशब्दोऽत्र तथा सति दम्पतीशब्दस्य द्विवचनान्तत्वेनासन्ध्यापत्त्या वृत्तभङ्गापत्तेः / चुचुम्बतुरपि-पित्रोः पुत्रपरिचुम्बनं स्नेहाव स्वाभाविकमिति भावः / / 141 // अथ तयोर्हांदुत्सवकरणमाह--महामहमितिमहामहं जन्मदिने तदीयं, (ये) यं चक्रतुस्तौ सुतरां प्रहृष्टौ / तस्यागमे तं विहितावशिष्ट-मिवादधाते स्म ततोऽप्यनल्पम् // 142 // व्याख्या--सुतरां-पुत्रागमेनात्यन्तं / प्रहृष्टी, तौ-मातापितरौ / तदीये-मङ्गलकुम्भस्य / जन्मदिने, यं, महामह-महोत्सवं, 'मह उद्धव उत्सव' इत्यमरः / चक्रतुः, तस्य, आगमे-आगमने सति / विहितावशिष्टं-विहिताव कृतादवशिष्टं शेषीभूतमिव / तत:-कृतादपि / अनन्यम्-अधिकं / तंमहोत्सवं / विदधाते-कुरुतः, स्म / एतेन महान् प्रहर्षः सूच्यते // 14 //