________________ [ 241 ] व्याख्या-एतस्य-मम पत्युः / जन्मास्पदं-जन्मस्थानम् / एपिका-एषा साक्षादृश्यमाना / चम्पा प:-नगरी। विशाला नगरी-उज्जयिनी पुरी, "उन्नयिनी स्यात विशालाऽवन्ती पुष्पकरण्डिनी" ति हैमः / इत:अस्याः चम्पानगर्याः / दविष्ठा-दूरतरा, ततश्च कुतो विशालासलिलपरिचयोऽस्य, न तदनुभवसंभवः / ननु नझनुभूतपूर्वमेवं कश्चिद् ब्रूते, ततश्च केनापि हेतुना तदनुभवेनावश्यं भाव्यमिति वितयं तत्कारणं निश्चिनोति / तत्र-विशालानगर्याम् / एतस्य-मम पत्युः / जनन्या:-मातुः / जनकस्य-पितुः / प्रशस्तम्-उत्तमम् / पस्त्यं-गृहं / ध्रव-निश्चयमेव / आस्ते-वर्त्तते / एवं च तत्रोत्पद्यमानस्यैतस्य तदनुभवः शक्यः, निमित्तान्तरासंभवादिति भावः // 137 / / अथ तस्मै तस्यास्ताम्बूलदानमाह-निर्णीयेतिनिर्णीय बुद्धयेति लवङ्गपूग-कर्पूरपूरेण विमिश्रितं सा / ताम्बूलमस्मै प्रददे नरेन्द्र-कन्या मनोरागमिव स्वकीयम् // 138 // व्याख्या-इति–पूर्वोक्तप्रकारेण / बुद्धथा, निर्णीय-निश्चित्य / सा-नरेन्द्रकन्या, त्रैलोक्यसुन्दरी / लवङ्गपूगकर्पूरपूरेण-लवङ्गं देवकुसुमं “लवङ्गं देवकुसुमं” इति हैमः, पूगः गूवाकः 'पूगे क्रमुकगूवाको' इति हैमः / कपूरश्चैतेषां पूरेणौघेन / विमिश्रितं-समन्वितं / ताम्बूलं, स्वकीय-निजं / मनोरागम्अनुराग मिव, अस्मै-मङ्गलकुम्भाय / प्रददे-दत्तवती // 138 // अथ मङ्गलकुम्भस्योजयिनीगमनमाह-शरी रेतिशरीरचिन्ताकपटेन धीमान्, वासालयादेष विनिर्जगाम / आदाय पञ्चापि तुरङ्गमाँस्तान्, क्रमात्पुरीमुज्जयिनी जगाम // 139 // व्याख्या-धीमान्, एषः-मङ्गलकुम्भः / शरीरचिन्ताकपटेन-शरीरचिन्तायाः कपटेन व्याजेन / वासालयाद्-वासगृहाद् / विनिर्जगाम-निर्गतः / तान्-करपरिमोचने प्राप्तान् / पञ्च अपि तुरङ्गमान्, बादाय, क्रमात्, उज्जयिनी, पुरी जगाम-प्राप्तः // 39 // यत्रान्धकोऽसौ धृतराष्ट्र एव, पङ्गुः प्रतीतोऽरुण एव कामम् / मनुष्यधर्मा स परं कुबेरः, काणः पुनर्भार्गव एक एव // 140 // व्याख्या-यत्र-उज्जयिन्यां / असौ-निकृष्टः / अन्धकः-लोचनविहीनः / धृतराष्ट्रः-कौरवः दुर्योधनपिता एव, नान्यः / पगु:-खञ्जः / अरुण:-काश्यपिः सूर्यसारथिः / एव-नान्यः / परं-तथा /