________________ [240 ] व्याख्या--इन्दुखण्डै:-कपूरैशकलैरिव / निर्मितानां-विहितानां / तेषां-मोदकानाम् / आस्वादरसम् / आस्वादयता, इव, सौन्दर्यम्-आस्वादचारुत्वम् / आदर्शयता-प्रकटयता इव / तेन-मङ्गलकुम्भेन / निजस्थानविबोधनाय इति-पुरः प्रदर्यमानम् / अवादि-ऊचे // 134 // अथ मङ्गलकुम्भोक्तिमाह--स्यादिति स्याचेद्विशालासलिलं कथञ्चि--तन्मोदकाः मानसमोदकाः स्युः / द्राक्षारसोत्पादितपानकान्तःसितापरिक्षेपनिदर्शनं च // 135 // व्याख्या-द्राक्षारसोत्पादितपानकान्त:मितापरिक्षेपनिदर्शनं च-द्राक्षा मृद्वी का 'मृद्वीका गोस्तनो द्राक्षे त्यमरः / तासां रसेन उत्पादितं निर्मितं यत्तानकं पेयं तदन्तः तन्मध्ये सितायाः परिक्षेपः न्यासः निदर्शनं दृष्टान्तः यस्य तद् / विशालाया:-तदाख्यनगर्याः / मलिलं--जलं / चेत् स्यात-यदि भवेद / तत्-तर्हि / कथश्चित-सादृश्यं प्राप्य मानसस्य चित्तस्य मोदकाः हर्षकाः-मानसमोदकाः, मोदकाः, स्यु:-भवेयुः, नान्यथा, विशालाजलस्यैव तादृशास्वादसमर्पकत्वादिति भावः / / 135 / / ___ अथ कन्याया वितर्कमाह- तदिति तद्भाषिताकर्णनतो धरित्री--धवस्य पुत्री परिविस्मिता सा / विचिन्तयामास किमार्य पुत्रोऽप्यबद्धमेतन्निजगाद विद्वान् // 136 // व्याख्या - तद्भापिताकर्णनतः-तस्य मङ्गलकुम्भस्य भाषितस्य आकर्णनतः श्रवणात् / धरित्रीववस्यभूपतेः / पुत्री, सा-त्रैलोक्यसुन्दरी / परिविस्मिता-आश्चर्यिता सती / विचिन्तयामास-दध्यौ, किमित्याह / विद्वानपि-धीमानपि / आर्यपुत्रः-मत्पतिः / किमतेद् , अबद्धम्-असम्बद्धम् / निजगाद-उवाच, विदुषः असम्बद्धोक्तौ केनापि कारणेन भवितव्यमिति भावः / / 136 / / ननु कुतोऽबद्धं तदित्याशंकानिवृत्त्यर्थमेतत्पुरस्थेनैव पुंसा सहाहं परिणोतेतिभ्रान्तबुद्धिमती त्रैलोक्य सुन्दरी स्वविचारं प्रदर्शयति-तस्येति एतस्य जन्मास्पदमेषिका पू-रितो विशालानगरी दविष्ठा / एतजनन्या जनकस्य पस्त्यं, प्रशस्तमास्ते ध्रुवमेव तत्र // 137 //