________________ [ 239 ] व्याख्या-किश्चित्-किमपि / देहचिन्तां-शरीरचिन्तां / वितत्य-समाप्य / किले त्यलोके / उन्मनसं-उत्कंठितं "स्यादुत्क उन्मनाः” इत्यमरः / व्याकुलचित्तं वा / एतं-कुमारं / समीक्ष्य-विलोक्य / वधूः-सा त्रैलोक्यसुन्दरी स्त्री। व्रते स्म-अवोचत् / नाथ !-स्वामिन् ! त्वाम् , आरोग्यसम्पातकरीआरोग्यस्य स्वस्थतायाः सम्पातः विनाशः तत्क/ स्वास्थ्य अस्वस्थकारिणी / बुभुक्षा-भोक्तुमिच्छा / विवाधतेपीडयति,क्षुधा बाधते / किमिति–प्रश्ने / अन्यथा कुतः शून्यचित्तो लक्ष्यसे इति भावः // 131 // अथाहारानयनमाह-अभाषेति अभाषमाणे दयिते वधूटी, चेटी समादिश्य पटीरवासा। स्थालं समानाययति स्म चेतः--प्रमोदकैर्मोदककैः प्रपूर्णम् // 132 // व्याख्या-दयिते-प्रिये / अभाषमाणे-किश्चिदवदति सति 'मौनं स्वीकारलक्षणमि' ति मत्त्वा / पटीरवासा:-पटीरस्य क्षौमस्य वासः यस्याः सा पटं वसाना / वधूटी-युवती, त्रैलोक्यसुन्दरी / चेटी-दासी। समादिश्य-आज्ञाप्य / चेतःप्रमोदकैः-चेतसो मोदजनकैः / मोदककै:- लड्डूकादिभिः / प्रपूर्ण, स्थालंभोजनपात्रं / समानाययति स्म-आनीनयत, भोजनायेति शेषः // 132 / / अथ तयोर्भोजनमाह --ताभ्यामिति ताम्यामुभाम्यामपि मोदकास्ते, निष्कृत्रिमप्रेमसमन्विताभ्याम् / एकत्र पात्रे घनसारसारै--रिवाहिता हर्षभरेण भुक्ताः // 133 // व्याख्या-निष्कृत्रिमप्रेमसमन्विताभ्यां-निष्कृत्रिमं सहजं यत्प्रेम प्रीतिः तेन समन्विताभ्यां युक्ताभ्यां / ताभ्यामुभाभ्यां-मङ्गलकुम्भत्रैलोक्यसुन्दरीभ्यामपि / एकत्र-एकस्मिन् / पात्रे-स्थाले / घनसारसारैःकर्पूरक्षोदैः / आहिताः-पूर्णाः / इव-विहिता इव वा / ते-आनीताः / मोदकाः, हर्षभरेण-अतिहर्षेण / भुक्ताः-स्वादिताः // 133 // अथ स्वजनपदबोधनायोद्योगमाह--आस्वेति आस्वादमास्वादयतेव तेषा--मस्या निजस्थानविबोधनाय / तेनेन्दुखण्डैरिव निर्मितानां, सौन्दर्यमादर्शयतेत्यवादि / / 134 / /