________________ [ 238 ] अथ किमशृणोदित्याहनिर्गम्यतां साम्प्रतमेष गेहात् , प्रयोजनं नः परिपूर्णमेव / सख्यः क्षणं तिष्ठतु स प्रतिष्ठः, प्रवर्तते यावदिदं तमोऽपि // 128 // व्याख्या-एषः-कुमारः / गेहात, साम्प्रतम्-अधुना। निर्गम्यता-निःसार्यताम्, यतः / न:अस्माकं / प्रयोजन-विवाह्य कन्याग्रहणरूपं, कार्यम् / परिपूर्ण-सिद्धमेव, अतोऽधुनानेन न प्रयोजनं किञ्चिदिति, किमर्थं सः तिष्ठतु ? अथपरा आह / सख्यः !-सहचर्यः / सः-कुमारः / प्रतिष्ठः-यथास्थित एव / क्षणं-किंचित्कालं / तिष्ठतु, यावद्, इदं तमः-अन्धकारः / प्रवत्तते-भवति, अन्धकारेऽस्य विसर्जनं वरम्, आलोके तु केनचिद् दृष्टे रहस्यभङ्गसम्भावनेति // 128 / / अथ मङ्गलकुम्भस्य स्वतः एव गेहाद्विनिर्गमनमाह--तासामितितासां गिरः कर्णपथं स नीत्वा, विमृश्य चित्तेन निमेषमात्रम् / शरीरचिन्तामिषतोऽभिमानी, विनिर्ययो वासगृहात् सवेगम् // 129 // व्याख्या-तासां-भुजिष्याणां / गिरः-वचांसि / कर्णपथं, नीत्वा-श्रत्वेत्यर्थः / चित्तेन-मनसा / निमेषमात्रं-क्षणं / विमृश्य-विचार्य / सः, अभिमानो-अभिमानधनः / शरीरचिन्तामिषतः-शरोरचिन्तायाः प्रस्रवणादेः मिषतः व्याजात् / वासगृहात , सवेगं-झटिति / विनिर्ययौ-विनिर्गतवान् // 129 // अथ त्रैलोक्यसुन्दर्याः तदनुसरणमाह-सुवर्णेतिसुवर्णपात्रं सोललैः प्रपूर्ण, स्वपाणिनादाय नरेन्द्रकन्या / तमन्वयासीद्रभसाद् रसोत्का, संपयेथैव व्यवसायमाजम् // 130 // व्याख्या-नरेन्द्रकन्या-त्रैलोक्यसुन्दरी। रसोत्का-रसेनानुरागेण उत्का उत्सुका, सती / स्वपाणिनानिजकरेण / सलिलः, प्रपूर्ण, सुवर्णपात्रम् , आदाय, तं-मङ्गलकुम्भं / व्यवसायमाजम्-उद्योगिनं / संपत्लक्ष्मीः / यथैव-तथैव / रभसाद्-वेगेन / अन्वयासीत्-तदनुप्राचलत् , अनुजगाम / / 130 / / अथ कन्यायाः जिज्ञासामाह-वितत्येतिवितत्य किञ्चित्किल देहचिन्ता-मेतं वधूरुन्मनसं समीक्ष्य / बते स्म किं नाथ ! विबाधते त्वा--मारोग्यसम्पातकरी बुभुक्षा // 131 //