________________ [ 237 ] अन्विष्यते / तं देशं, विना, निदेशम्-आज्ञाम् / आदत्स्व-गृहाण, इष्टस्य वस्तुनः आदाने तव ममाज्ञायाः न प्रयोजनम्, सर्व तवैव, अतो यथेष्टं गृहाणेत्यर्थः // 24 // अथ तस्य स्वेष्टयाचनमाह-देशेति देशानिदेशानिव ते निदेश--व्यापारभाजः परिपालयन्तु / तान्पञ्च पञ्चाञ्चित ! वल्लभस्य, देशस्य वाहान दिश मे नरेन्द्र // 125 // व्याख्या-नरेन्द्र ! ते-तव / निदेशव्यापारभाज:-निदेशः आज्ञा तेन व्यापारं भजन्ति इति ते आज्ञाकारिणः पुरुषाः / निदेशान-आज्ञा / इव, देशान्-जनपदान् / परिपालयन्तु-न मे तेन प्रयोजनमित्यर्थः, तर्हि किं ते प्रयोजनमित्यत आह / पञ्चाञ्चित-पञ्चसु लोकेषु अश्चित ! पुरुषश्रेष्ठ ! 'स्युः पुमांस: पञ्चजनाः पुरुषाः पूरुषा नरा” इत्यमरः / मे-मझं / वल्लभस्य-तदाख्यस्य / देशस्य पञ्च-करणसंख्याकान् / वाहान-अश्वान् / दिश-यच्छ / / 125 / / अथ भूपतेस्तदानमाहकियत्त्वया याचितमित्युदित्वा, स भूपतिः पञ्च ददौ तुरङ्गान् / प्रसादमासेदुषि मानसेऽस्मि--वास्त्यदेयं महतां हि किञ्चित् // 126 // व्याख्या-त्वया, कियद्-अत्यल्पमित्यर्थः / याचितम् . इति–इत्थम् / उदित्वा-गदित्वा / स भूपतिः, पश्च तुरङ्गान्-वल्लभदेशाश्वान् / ददौ। एतं चोचितमेव अत आह / हि-यतः / महताम्उदाराणाम् / अस्मिन्-जामातरि, विषये। मानसे-चेतसि / प्रसाद-प्रसन्नताम् / आसेदुषि-प्राप्तवति सति / नैव किश्चिद्वस्तु अदेयम् अस्ति-सर्व देयमेव भवतीति भावः // 26 // अथ दासीवचनश्रवणमाह-विवाह्येति विवाह्य तां मङ्गलकुम्भ एवं, समाश्रयद्वासगृहं स यावत् / तावद्धजिष्याभिरुदीर्यभाणाः, स्वयं समाकर्णयति स्म वाचः // 127 // ब्याख्या-सः. मङ्गलकुम्भः. तां-त्रैलोक्यसुन्दरीं। विवाह्य-परिणीय / यावद्, वामगृहं, समाश्रयत्-अधितस्थौ। तावत्-तदवध्येव भुजिष्याभि:-दासीभिः / उदार्यमाणा:- उच्चार्यमाणाः / एवंवक्ष्यमाणप्रकाराः / वाचः-वांसि / स्वयम्-आत्मनैव / समाकणयति स्म-अौषीत् / / 127 / /