________________ [ 236 ] पनया-वृद्धाङ्गनाभिः कर्तीभिः या स्थापना निवेशः तया कृत्वा / स्थितानां, मातृकाणां गौर्यादिषोडशमातृकाशत्तीनां। सुमनोनुरूपां-देव्युचितां निर्मलमनःप्रशस्तां वा / पूजा, विधाय, भद्रा-कल्याणी, सा / भद्रासने-उत्तमासने / प्राक्-पूर्वाभिमुखी। निषसाद-उपविवेश // 120 // 12 // अथ तयोः पाणिग्रहणमाह-लग्न इति लग्ने प्रशस्ते पतिमित्रपूर्ण-दृष्ट्या प्रदृष्टे बलशालमाने / षड्वर्गशुद्धे च तयोः पुरोधा, अमीलयन् मङ्घ करं करेण // 122 // व्याख्या-पतिमित्रपूर्ण दृष्टया-पतिः लग्नस्य मित्रं च तेषां पूर्णदृष्टया चातुश्चरणदृष्ट्या / प्रदृष्टेविलोकिते / बलशालमाने-बलेन अष्टवर्गबलेन शालमाने शोभमाने / षडवगशद्धे-षड्वर्गः मित्राधिमित्रादिभिः शुद्धे प्रशस्ते / च-अत एव / प्रशस्ते-शुभे / लग्ने-मुहूर्त / पुरोधा:-पुरोहितः / मक्षुलग्नकालातिपातो मा भूदिति शीघ्रमेव / तयोः-वरकन्ययोः / करेण, करम्, अमीलयत्-युयोज, पाणिग्रहमकारयस्त्यिर्थः // 122 / / अथ तस्मै जैतुकदानमाह-सेति स मङ्गले प्राचि दुकूलभारान्, ददौ द्वितीये वरभूषणानि / सुवर्णमाणिक्यभरं तृतीये, तुर्ये स्थाश्वादि धराधिराजः // 123 // व्याख्या-सः, धराधिराज:-राजा / प्राचि-प्रथमे। मङ्गले-मङ्गलविधौ। दुकूलभागन्दुकूलानां सूक्ष्मक्षौमवस्त्राणां भारान् समूहान् / द्वितीये-मङ्गले। वम्भूषणानि वर।णि उत्तमानि च तानि भूषणानि च तानि / तृतीये-मङ्गले। सुवर्णमाणिक्यभरं-सुवर्णानां माणिक्यानां च भरं समूहम् / तुर्येचतुर्थे, मङ्गले / रथाश्वादि-च / ददौ-समापयत्, जामात्रे इति शेषः / / 123 // यावत्करं मुञ्चति नैव पुत्र्या, धवः स तावत्त मुवाच भूपः / जामातरद्यापि विमृग्यते य-स्तं देशमादत्स्व विना निदेशम् // 124 // व्याख्या-पुत्र्याः, करं-हस्तं / धवः-वरः। यावत्, नैव, मुञ्चति, तावत्-तदवध्येव / भूपःराजा। तं-वरं, मङ्गलकुम्भम् / उवाच, जामातः ! अद्यापि-एतावद्धहुवरतुदानेऽपि / यः-देशः / विमृग्यते