________________ व्याख्या-तन्मण्डपद्वारि-तस्य विवाहाथ निर्मापितस्य मण्डपस्य द्वारि / मतङ्गजेन्द्रस्कन्धातमतङ्गजेन्द्रस्य महागजस्य स्कन्धात पृष्ठाव / समुत्तीर्य-नीचैरागत्य / वसूनि-धनानि / दिशन-याचकेम्यः ददद / कुलाङ्गनाभिः-कुलस्त्रीभिः अर्घार्थं पात्रं भाजनं तैः अर्घपात्रैः / कृतं-समर्पितम् / अर्घ-पूजाम्, 'मूल्ये पूजाविधावर्घ' इत्यमरः / गृहीत्वा-स्वीकृत्य / अन्तरम्-मण्डपमध्यं / आविवेश-प्रविवेश / // 118 / / अथ तस्य आसनाधिरोहणमाह-विभूषेति विभूषयामास विभूषणांशु-प्रद्योतिताशः स कुमारसिंहः / सिंहासनं श्रीसुरसुन्दरेण, व्यधायि यत्तत्र सुमेरुतुङ्गम् // 119 // व्याख्या-सत्र-मण्डपे / श्री सुरसुन्दरेण-राज्ञा / सुमेरुतुङ्गम्-सुमेरुः मेरुपर्वतः "मेरुः कनकाचलः रत्नसानुः सुमेरुः” इतिहैमः / स इव तुङ्गमुन्नतं यत् / सिंहासनं, व्यधायि-निरमायि, तत् सिंहासनं / विभूषणांशुप्रद्योतिताश:-विभूषणानां मण्डनानामंशुभिः किरणैः प्रद्यौतिताः प्रकाशिताः आशाः दिशः येन स तादृशः “अलङ्कारस्त्वाभरणं परिष्कारो विभूषणं मण्डनञ्च" इत्यमरः / सः-मङ्गलकुम्भाख्यः / कुमारसिंहः-कुमारः सिंहः इव कुमारश्रेष्ठः। विभूषयामास-अलञ्चकार, तत्रोपविवेशेत्यर्थः / / 119 // अथ तत्समीपे त्रैलोकसुन्दर्या अपि उपवेशनमाह - त्रैलोक्येति - त्रैलोक्यसुन्दर्यपि वर्यभूषा-विभूषिताङ्गी विहिताभिषेका / विलेपनैर्वासितदिक्कदम्बा, दुकूलवासःपिहिताननश्रीः // 120 // सा मातृकासद्मनि मातृकाणां, वृद्धाङ्गनास्थापनया स्थितानाम् / विधाय पूजां सुमनोनुरूपां, भद्रासने प्राग्निषसाद भद्रा // 121 // ( युग्मम् ) व्याख्या-वर्यभूषाविभूषिताङ्गी-वर्याभिः उत्तमाभिः भूषाभिः अलंक्रियाभिः “भूषा तु स्यादलंक्रिया इतिकोशः, विभूषितमङ्गं यस्याः सा तादृशी / विलेपनैः-घृष्टचन्दनादिलेपैः, कृत्वा, वासितमामोदीकृतं दिक्कदम्बं दिक्चक्रं यया सा वासितदिक्कदम्बा / तथा विहितः अभिषेकः यस्याः सा विहिताभिषेका। तथा दुकूलवाससा क्षौमवस्त्रेण "क्षौमं दुकूलं" इति हैमः / पिहिता आच्छादिता आननस्य मुखस्य श्रीर्यस्याः सा दुकूलवासःपिहिताननश्री:-सती / सा, त्रैलोक्यसुन्दरी, मातृकासमनि-कुलदेवतागृहे / वृद्वाङ्गनास्था