________________ [ 234 ] व्याख्या--तत:-तत्तद्विध्यनन्तरं / सः-मङ्गलकुम्भः / सीमन्तिनीभिः- नारीभिः, “नारी सीमन्तिनी वधू" रित्यमरः / आरोपितान-आलेखितान् / कुङ्कमपङ्कहस्तान्–कुङ्कुमपङ्कस्य हस्तान् हस्तकृतहस्ताकारान् / समन्तात्-सर्वतः / दधतं-धारयन्तम् , सीमन्तिन्यो हि गजे कुङ्कुमपङ्काक्तान् हस्तान् आरोपयन्ति, तेन च हस्ताकारा गजशरीरे जायन्ते इति भावः / अत एव अरूक्षः स्निग्धः कायः शरीरं यस्य तम् अरुक्षकायम् हस्तिनं-गजम् / हस्तिपकेन आत्तः उपरि रोहणकाले धृतः हस्तः करः यस्य स हस्तिपकात्तहस्त:-सन्। समारुक्षत्-आरुरोह // 11 // वीणासु भेरीषु च वाद्यमाना-स्वनन्तरामासु च कुर्वतीषु / गीतानि तारस्वरमन्यपुष्टा-ध्वनि जयन्तीषु तमन्वितासु // 116 // व्याख्या-वीणासु, भेरीषु-दुन्दुभिषु / च-"भेरी दुन्दुभिरानकः” इति हैमः / वाद्यमानासुसतीषु / अनन्तरामासु-अनन्ताः असङ्ख्याताः अगणिताः इत्यर्थः, याः रामाः स्त्रियः तासु / तं-मङ्गलकुम्भम् / अन्वितासु-अनुसृतासु / अन्यपुष्टाध्वनिम्-अन्यपुष्टायाः कोकिलायाः “परपुष्टान्यभृतौ च पिके' इति शिलोब्छः, ध्वनि रवं / जयन्तीषु-अभिभावयन्तीषु / तारस्वरं-उच्चैस्वरं यथा स्यात्तथा / गीतानि, कुर्वतीषु च-सतीषु, हस्तिनं समारूक्षदिति पूर्वेणान्वयः // 116 / / अथ तस्य मण्डपगमनमाह-भट्टेष्विति / भट्टेषु काव्यानि पठत्सु सत्सु, गीतानि गायत्सु च गायनेषु / बर्हातपत्रेण विराजमानः, स मण्डपं प्राप निवृत्ततापः // 117 // व्याख्या-भट्टेषु-मागधादिषु / काव्यानि-स्तुतिकाव्यानि / पठत्सु-सत्सु गायनेषु-गाथकेषु / गीतानि, गायत्सु च, बतिपत्रण-बर्हस्य पिच्छस्य, "पिच्छं बह” इति हैमः, पिच्छयुक्तेन वा आतपत्रेण छत्रेण / विराजमान:-शोभमानः, अत एव निवृत्तः अपगतः तापः यस्य स / निवृत्ततापः-अथ च निरुद्वेगः / सः-मङ्गलकुम्भः / मण्डपं-विवाहमण्डपं / प्राप-उपययौ // 117 // तन्मण्डपद्वारि मतङ्गजेन्द्र–स्कन्धात्समुत्तीर्य दिशन वसूनि / कुलाङ्गनाभिः कृतमर्धपात्रै-रघं गृहीत्वान्तरमाविवेश // 118 //