________________ [ 233 ] सदा विवाहव्यवहारविज्ञाः, काचिद्ववन्धुर्वलयं प्रकोष्ठे / ताम्बूलमाराद्घनसारमिश्र, व्यश्राणयन काश्चन भव्यभावाः // 112 // व्याख्या-सदा, विवाहव्यवहारविज्ञा:-विवाहविधिनिपुणाः। काश्चित्-नार्यः / प्रकोष्ठे-मङ्गलकुम्भस्य कर्पराधोभागे, "प्रकोष्ठस्तस्य चायधः" इत्यमरः / तत्र 'तस्य' कर्परस्येत्यर्थः / वलयं-कटकं, पाँची इति ख्यातं / 'कटको वलयोऽस्त्रियामि'त्यमरः / बन्धुः-परिधापयामासुः / भव्यभावाः-पशस्ताशयाः / काश्चन-नार्यः / आगत-सामीप्येन, घनसारेण कारेण मिश्रं समन्वितम् , घनसारमिङ, ताम्बूलंनागवल्लीदलं / व्याणयन्–ददुः / / 112 / / कपोलदेशे मृगनाभिपत्र - भङ्गी व्यधुः काश्चन रागसङ्गात् / वासांसि काश्चित् परिधाप्य नव्या-न्यदीशन दर्पगमिद्धदः // 113 // ___ व्याख्या-काश्चन–नार्यः / गगसंगान-अनुरागात् / कपोलदेशे-मंगल कुम्भस्य गण्डस्थले, 'गण्डौ कपलौ' इत्यमरः / मृगनाभित्रभङ्गी-मानाभिना कस्तूर्या पत्रभङ्गों पत्रपब्लिं “पत्राः भङ्गि ( भयो / वल्लिलताऽङ्गुल्यः” इति हैमः / व्यधुः-अकार्षुः / इद्ध दया:-मानिन्यः / काश्चन, नव्यानि-नूतनानि / वासांसि-वस्त्राणि / परिधाप्य, दर्पणं-मुकुरम् ,'दपणे मुकुरादर्शा' वित्यमरः / अदीदृशन्-दर्शयन्ति स्म 'पश्य' कीदृशं ते रूपं जातमिति बुद्धया इति भावः // 1133 // इत्युग्रसौभाग्यपरप्रभावा - नुमेयभाग्यातिशयस्य तस्य / चक्रुः पुरन्ध्रयोऽपि विधिं विवाहे,क्य भाग्यभाजां न भवन्ति भोगाः॥११४॥ ___ व्याख्या-इति-पूर्वोक्तरीत्या, उग्रेणोत्कटेन सौभाग्येन परणोद्भुतेन प्रभावेण च अनुमेयः उन्नेयः भाग्यातिशयः यस्य तस्य उग्रसौभाग्यपरप्रभावानुमेयभाग्यातिशयस्य, तस्य-मङ्गलकुम्भस्य / विवाहेविवाहकाले प्राप्ते / पुरन्ध्रय:-कुटुम्बिन्योऽपि स्त्रियः “पुरन्ध्री तु कुटुम्बिनो" इति हैमः / विधि-क्रियां / चक्र:-युक्तं चैतत् / तथाहि-भाग्यभाजां-भाग्यवतां / क्व-कुत्र / भोगा:-सुखानि / न भवन्ति ? अपि तु सर्वत्रैव भवन्तीत्यर्थः / / 114 / / अथ यात्रायै तस्य गजारोहणमाह-आरोपितानिति आरोपितान कुङ्कुमपङ्कहस्तान्, सीमन्तिनीभिर्दधतं समन्तात् / ततः समारुक्षदरूक्षकाय, स हस्तिनं हस्तिपकात्तहस्तः // 115 //