________________ [ 232 ] स्ववृत्तसन्तोषितकान्तपुत्र - प्रपूर्यमाणानुपमाभिलाषाः / अम्भोभिरुष्णैरवदातरूपै - रसिस्नपंस्तं प्रवरा रमण्यः // 110 // व्याख्या-स्वसुवासिनीमिः-ज्ञातिवधूभिः, एकगोत्रीयस्त्रीभिर्वा "स्वज्ञातिःस्वजनो बन्धुः सगोत्रश्च" इति हैमः / उत्तार्यमाणम्, द्रव्यं उपाददान:-गृहद्भिः / मार्दङ्गिकैः-मृदङ्गवादननिपुणैः / कलस्वनेषुकलाः मधुराः श्रुतिसुखाः स्वनाः निःस्वनाः येषां तेषु / महामृदङ्गेषु, विचित्रभङ्गन्या-विचित्रया विलक्षणया विविधया वा भङ्गया रीत्या / प्रवाद्यमानेषु-सत्सु // 188 / / व्याख्या-भूषासु मनोहरासु-"भूषा तु स्यादलंक्रिया" इत्यमरटीकापाठादलंकियासु भूषणक्रियासु मनोहरासु, यद्वा भूषणक्रियायां सुमनोहरासु भूषगानां यथास्थानयोजिकासु, यद्वा भूषाभिः भूषणक्रियाभिः सुजनानां सुमनांसि हरन्तीत्येवं स्वभावासु / प्रवरासु-गुणादिभिरुत्तमासु / योषासु-नारीषु / गीतं-गानम् 'गीतं गानमिमे समे' इत्यमरः / प्रकुर्वतीषु-गायन्तीषु, सतीषु / तं-मङ्गलकुम्भं, हारिद्रं हरिद्रासम्पन्नं यच्चूर्ण तेन उपचितेन मिश्रितेन / हारिद्रचूर्णोपचितेन, सुगन्धिना, तेन-प्रसिद्धेन / तैलेन, अभ्यज्य-मर्दयित्वा // 109 // व्याख्या-स्ववृत्तसन्तोषितकान्तपुत्रप्रपूर्यमाणानुपमाभिलाषा:-स्ववृत्तेन निजव्यवहारेण निजशुद्धाचरेण सन्तोषितौ प्रोणितौ यौ कान्तपुत्रौ स्वस्वामितनयौ ताभ्यां प्रपूर्यमाणा सम्पाद्यमाना अनुपमा अतुल्याः अभिलाषा यासां ताः / प्रबराः, रमण्यः-नार्यः / अवदातरूपैः-"अवदातमनाविलं' इत्युक्तेः अवदा तमनाविलं रूपं स्वरूपं येषां ते स्वभावनिर्मलैः / उष्णैः, अम्भोभिः-पानीयैः, 'अम्भोऽणस्तोयपानीय'मित्यमरः / तं-मङ्गलकुम्भम् / असिस्नपन्-स्नपयामासुः // 11 // अथ तस्य वेशविरचनमाह-काश्चनेतिविलेपनं काश्चन चक्रुरङ्ग, कपूरसम्भाजितचन्दनेन / ललाम काश्चिच्च ललाटपट्टे, गोरोचनारोचितकुकुमेन // 111 // ___ व्याख्या-काश्चन-नार्यः / अङ्गे–मङ्गलकुम्भस्य शरीरे, अवयवे वा / कर्पूरसम्भाजितचन्दनेनक' रेण सम्भाजितेन मिश्रेण चन्दनेन / विलेपनं, चक्रः, काश्चिच्च-नार्यः / ललाटपट्ट-भालस्थलं पट्टम् फलकमिव तस्मिन् , गोरोचनया रोचितेन रुचिरेण कुंकुमेन / गोरोचनारोचितङ्कमेन, ललाम-तिलक६. मकार्षीत् // 11 //